पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | भूर्भुवः स्वरोमग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा || २० || भाध्यम् – भूर्भुवः स्वः, महाव्याहृतयः । एताभिर्व्याहृतिभिः पृथिव्यन्तरिक्षयुलोक अभिधेयाः । ब्रह्मक्षत्रविशो वा वर्णाः । अन्नप्रजापशवो वा । ओङ्कारः सर्वदेवतावा- चकः । ओङ्कारः सर्वदेवन्य इति कात्यायनानुक्रमणात् | अग्निज्योतिज्योतिरमिः स्वाहा । नमःस्वस्तिस्वाहास्त्रधाल॑वपड्योगाच्च । इति पाणिनिसूत्र प्रथमस्थाने चतुर्थी | अग्निर्ज्योति ज्योतिरग्निरति मन्त्राभ्यासः । अभ्यासे भूयांसमर्थं मन्यन्त इत्यभिप्रायः । अथ कोऽर्थः | अग्नये ज्योतिने स्वाहा सुहुतमस्तु । ७० अथवा — स्वस्थाहानमस्तु । हानं हा न हा अहाः स्वस्थाहाऽपरित्याग आत्मनो द्रव्यस्य वेति । अथवा—योऽग्निज्योतिज्योतिश्चाग्निस्तस्मै स्वाहा | तैत्तिरीयैरयं मन्त्र एवं व्याख्यातः- अग्निज्योतिरित्याह । अग्नितोधाः । ज्योतिरनिः स्वाहेत्याह | प्रजा एव प्रजाता अस्यां प्रतिष्ठापयति । अग्निज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोति । रेत एक तद्द्वाति ॥ २० ॥ पशून्मे यच्छ ॥ २१ ॥ --- भाष्यम् – हे गार्हपत्य पशून्प्राम्यानारण्यान्हविः साधनभूतान्मे मह्यं यच्छ देंहि । यज्ञा- र्थमेव हि पशबो याच्यन्ते । श्रावितोऽयमर्थस्तैत्तिरीयैः- “ ग्राम्याश्च मे पशक आरण्याश्च न्यज्ञेन कल्पन्ताम् " इति ॥ २१ ॥ पशुभ्यस्त्वा ॥ २२ ॥ भाष्यम् – हे पाणिगतलेप त्वा त्वां पशुभ्यः कृते यच्छामीति शेपः ॥ २२ ॥ स्वधा पितृभ्यः ॥ २३ ॥ भाष्यम्–इमा आपः पितृभ्यः पितॄणां कृते दत्ताः सन्विति शेषः ॥ २३ ॥ वृष्टिरसि वृश्च मे पाप्मानमप्सु श्रद्धा ॥ २४ ॥ भाष्यम् – हे देवते वृष्टिश्छेदन हेतुरसि । अतो मे पाप्मानं वृश्च च्छिन्धि | अप्सु चापूशब्दः कर्मनामसु पठितो निघण्टौ । शास्त्रीयकर्मानुष्ठाने श्रद्धाऽस्तु ॥ २४ ॥ तेन ऋषिणा तेन ब्रह्मणा तया देवतयाऽङ्गिरस्त्रद्वा सीद ॥ २५ ॥ भाष्यम्–हे समित्तेन ऋपिणा मन्त्रदर्शिना | तेन ब्रह्मणा मन्त्रेण । तया देवतया' तया त्वदभिमानिन्या देवतया | अङ्गिरोभिरिवोपहिता सत्यग्निमती त्वं धुवा निश्चल्य सती सीदोपविश बनावित्यर्थः ॥ २५ ॥