पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/११७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | ८५ - सा० भाष्यम् - द्विविधानां पितॄणां मध्ये ये मनुष्याः पितरस्तेषामेव पिण्डपितृयज्ञः ॥ ये तु देवास्तेषां दर्शपूर्णमासादिका इतरे यज्ञाः । तस्ना देतेन पिण्डपितृयज्ञेनैष पुरुषः पितृलोके चरति ॥ अथ " प्रजापते न त्वदेतानि " इति मन्त्रेण गार्हपत्यदेशं प्रत्य गमनं विधत्ते- यः पितृभ्यः करोति । स ईश्वरः प्रमेतोः । प्राजापत्ययर्चा पुनरैति । यज्ञो वै प्रजापतिः । यज्ञेनैव सह पुनरेंति । न प्रमायुको भवति । इति ॥ सा० भाष्यम् –यः पुमान्पित्रर्थमुक्तं कर्म करोति स पितृप्रियत्वात्सहसा मर्तु सुस- मर्थो भवति । तत्परिहाराय प्राजापत्यमन्त्रेण गार्हपत्यदेशं पुनरागच्छेत् । प्रजापतेर्यज्ञस्र- ष्टृत्वेन यज्ञरूपत्वाद्यशेनैव सह पुनरागतो भवति । अतो न म्रियते ॥ - एतदेव समन्त्रकं पुनरागमनं प्रशंसति - पितृलोके वा एतद्यजमानश्वरति । यत्पितृभ्यः करोति । स ईश्वर आर्ति- मार्तोः । प्रजापतिस्त्वा वैनं तत उन्नेतुमर्हतीत्यादुः । यत्प्राजापत्ययर्चा पुनरैति । प्रजापतिरेचैनं तत उन्नयति । नाऽऽर्तिमार्च्छति यजमानः । ( १० ) । इति ॥ सा० भाष्यम्-पितृभ्यः करोतीति यदस्त्येतेन यजमानः पितृलोक एव संचरति | अत: स यजमानो मनुष्यलोके निस्पृहत्वादत्र पीडां प्राप्तुं प्रभवति । तमेनं प्रजापतिरेक तत आर्तेरुद्धर्तुमर्हतीत्येवमभिज्ञा आहुः । अतः प्राजापत्यमन्त्रेणाऽऽगच्छन्तं प्रजापतिरुद्ध- रति । सोऽप्याति न प्राप्नोति ॥ (१० ब्रा० १ । ३ । १० ) । इति ॥ इति पिण्डपितृयज्ञविधानम् । अथ पिण्डपितृयज्ञसूत्रम् | अमात्रास्यायामपर।ह्णे पिण्डपितृयो दक्षिणाग्निरे कोल्मकं प्रदक्षिणा प्रणयेद्ये रूपाणि प्रति- मुञ्चमाना असुराः सन्तः स्वधया चरन्ति । परापुरो निपुरो ये भरन्त्यग्निष्टॉल्लोकात्प्रणुदात्वस्मा- दिति सर्वकर्माणि तां दिशमुपसमाधायोभौ परिस्तीर्य दक्षिणाः प्र गुदक्प्रत्यगुदग्वैकैकशः पात्राणि सादयेच्चरुस्थली शूर्पर फ्योलखलमुसलस्वध्रुवकृष्णाजिनसकृदाच्छिने ममेक्षण कम- ण्डलून्दक्षिणतोऽग्निष्टमारुह्य चरुस्थाली हीणां पूर्णा निभृजेत्परिसन्नान्निध्यात्कृष्णाजिन उलूखलं कृत्वेतरान्पत्न्यवहन्यादविवेचमबहतान्सकृत्प्रक्षाल्य दक्षिणामौ श्रपयेदर्वागतिप्रणी- तात्स्फ्येन लेखामुलिखेदपहता असुरा रक्षांसि बेदिषद इति तामभ्युक्ष्य सकृदाच्छिन्नैरव स्तीर्याऽऽसादयेदभिवार्य स्थालीपाकमाज्यं सर्पिरनुत्पूतं नवनीतं वोपूतं ध्रुवायामाज्यं कृत्वा दक्षिणत आञ्जनाभ्यञ्जनकशिपूपवईणानि प्राचीनावी ती ममुपसमाधाय मेक्षणेनाऽऽदाया-