पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | भुञ्जतः क्षीरदानादिना पाढयन्तेऽनुञ्जन्त इति तद्विप+यः | नानपायेतृत्वं चेत्युभौ दोषौ । बहुवं पालयितृत्त्रं चेयुभौ गुणों तत्र गुणसंपादनेन प्रशंसन्विधत्ते--- बह्वानीयाऽऽविःपृष्ठं कुर्यात् । हवनं पशवो भुञ्जन्त उपतिष्ठन्ते ” । [ तै० ब्रा० का ० १ म० ६ अ० ३ ] इति । बह्वाज्ये पुरोडाशस्य पृष्टमश्रिमृज्य यथा दृश्यते तथा वह्नज्यमानयेत् । तथासत्याज्यस्य बहुत्वात्पशूनामल्पःवदे।पो न भविघ्नति । पुरोड शपृष्टस्याऽऽविर्भूतत्व दपालयितृत्वमपि न भवति । कृत्स्नस्यापि पुरोङा शस्य होम वितुं प्रस्त-- " यजमानो वा एककपालः | पककपालस्यावद्येत् । ( ५ ) यजमानस्या. बद्येत् | उवा माद्येयजमानः | प्र वा मीयेत " [ते०ज्ञा०का० १५०६अ०३ ] इतरपुरोडाशेषु भक्षणाद्यर्थमवशेष्य किंचिदेवावदीयते तद्वत्तत्र: प्यवदानेन यजमान- स्थावयवश्छिद्येताथवोन्मत्तो भवेत् । यद्वा प्रमयेत । कृस्त्रहोमं विधत्ते-- “ सकृदेव होतव्यः | सकूदिव हि सुवर्गो लोकः | " [ तै० ब्रा० का० १ भ० ६ अ० ३ ] इति । सकृदेव कृत्स्न एत्र | स्वर्गलोकस्य सकृत्वमखण्डितत्वम् । एककपाले पूर्धमानीतस्य बह्वाज्यस्य होमं विधत्ते-- " हुत्वाऽभिजुहोति । यजमानमेव सुदर्गे लोकं गमयित्वा | तेजसा समर्थ- यति । " ( तै० ब्रा० का० १ ० ६ अ ३ ) इति । ० आदौ पुरोडाशं हुत्वा तस्योपर्याज्यं जुहुयादित्यर्थः । चोदकप्राप्तेनाऽऽहवनीयहोमेनैककपालं प्रशंसति " यजमानो वा एककपाल: | सुवर्गों लोक आहवनीयः । यदेककपाल- माहवनीथे जुहोति । यजमानमेव सुवर्ग लोकं गमयति । " [ ते० प्रा०का० १ प्र० ६ अ० ३ ] इति । कयाचिदुपपत्त्या पुरोडाशस्य चोदक प्राप्तं स्रुचा होममपोद्य हस्तेन होमः प्रसक्तस्तद्वा- ( स्तं वा ) रयितुं स्रुचा होमस्य प्रतिमसवं विधत्ते - - “ यद्धस्तेन जुहुयात् | सुवर्गालोकाग्रजमानमवविध्येत् । स्रुचा जुहोति । सुवर्गस्य लोकस्य समष्टयै | " [ तै० ब्रा० का० १ प्र० ६ अ० ३ ] इति । अवविध्येत्प्रच्यावयेत् । पुरोडोशो येन संनिवेशेन पात्रेऽवस्थितस्तेनैव संनिवेशे नागौ