पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | ध्रप्रैषवर्जं पात्र्यां नवतण्डुलप्रस्कन्दनान्तं श्यामाका वहननार्थमुलूखलं प्रक्ष. ल्यान्नस्तनूरसत्या- द्यारभ्याऽऽग्नीध्रभैषवर्जं प्रस्कन्दच्छ्यामा कतुपाननुमन्त्र्य समाहतान्सर्वास्तुपान्मध्यमपुरोडा- शकपाल ओष्य रक्षसां भागोइतीति निरसनं कृत्वा वायुर्वी विनिकिति विविच्य देवो वः सवितेति मन्त्रेण पत्र्यां श्यामाकान्प्रस्कन्दयित्वा अधेन व ' इति मन्त्रेण पात्रीस्थान्पुराणनवतण्डुल,ञ्याम. कांश्च तन्त्रेणावेदय त्रिष्फलीकतेचा इति पत्नी संप्रेष्यति । - पत्नी - पुराणनवीही नवश्रामाकान्क्रमेण देवेभ्यः शुन्धध्वमित्यारम्य देवेभ्यः शुम्भ- ध्वमित्यन्तेन मन्त्रेण सुफली कृतान्कुर्यात् । अध्वर्युः— फलीकरणं प्रज्ञातं निधःय सर्वतण्डुलान्क्रमेण पार्थक्येन प्रक्षाल्य प्रक्षा• लितमुदकमेकीकृत्य त्रिष्फली क्रियमाणानामिति निनयनमन्त्रगोत्करे तन्त्रेण निनीय यथा- भागं व्याबर्तघ्त्रमिति नब.श्यामाकवर्ग तण्डु अन्चिभज्येदमिन्द्र, ग्न्योचव्यापृथिज्योरिति पेषणा- र्थानिदं विश्वेषां देवानामिति चर्चर्थान मिमृश्य कृष्णाजिनादानादि अणूनि कुरुतादित्यन्त- माग्नेयस्य कृत्वा पुनर्नवानां कृष्णाजिनादानादि कृत्वा देवस्य त्वेत्यनुद्रुत्येन्द्राग्निभ्यां जुष्ट- मधिवपाभि द्यावापृथिवीभ्यां जुष्टमविवामि धान्यमतीत्यादि अणूनि कुरुतादित्यन्ते पिष्ट लेपं प्रज्ञातं निदध्यात् । अग्नेयस्याटो कपालान्युपधः यैन्द्राग्नस्य चाष्टा दुधाय तूष्णी चत्वार्युपधाय वैश्वदेवसैौम्यथोः स्थ.सौ क्रमेण ध्रुवोऽसीति मन्त्रेगोपचाप द्यावापृथिव्यमेक- कपालमुपधाय भृगूणामङ्गिरसां तपसा तप्यस्वेति मन्त्रेणैककपाले वेदेनाङ्गासनपुह्य मदन्ती• रधिश्रयति । पत्र्यां देवस्येत्यनुत्याग्नये जुष्टं संवपामीति मन्त्रेण पुराणपिष्टं समोप्यान्य- स्मिन्पात्रे देवस्य त्वेयनुद्रत्येन्द्र या जुटं संगपनि द्यावापृथिवीयजुष्टं संवपाभीति पिष्टानि समोप्य प्रोक्षणीबपिष्टानि कणोत्पूय श्यामाकतण्डुलांश्चोत्पूय देवस्त्या सविता पुनाविति मन्त्रेण पय उत्पूय तूष्णीं वैश्वदेवस्थाल्यामासिच्या पश्चोत्पूय सौम्यस्थाल्यामासि- श्चत्यपः । मखस्य शिरोऽसीत्याग्यं पिण्डं कृत्वा पुनर्भखस्य शिरोऽसीत्यनेन नवानां पिण्डं कृत्वा यथाभागं व्यावतेंथामिति विभज्येदमिदं द्यावापृथिव्योरित्यभिमृदय घर्मोऽ- सीत्येतेन मन्त्रेणाऽऽग्नेयमधिश्रित्य तेनैव मन्त्रेणैन्द्र ग्नमधिश्रित्य वैश्वदेवचरुस्थाल्यां तेनैव मन्त्रेण तण्डुलानोप्य तैनैव मन्त्रेण सौम्यस्थाल्यां श्यामाकतण्डुलानोप्य तेनैव मन्त्रेणैकक- पालमधिश्रयति । क्रमेण पुरोडाशानाभेव प्रथनं कृत्वा सर्वाणि हीषि त्रिः पर्यग्नि कृत्वाऽऽग्नेयमभिघार्य तूष्णीमितराण्यभिचार्याऽऽग्नेयमैन्द्राग्नं च पाज्यां प्रतिष्टाप्या विकृतप्राकृतेनं मन्त्रेण वैश्वदेवचरुं सौम्यं चरुं चौद्वास्य ( विहितस्य प्रथनस्याभावादा भुवनस्येत्यूह मन्ये वर्णयन्ति । आशयपात्र एककपालमुद्दास्यालंकरणमन्त्रेणाभिपूर्य यथा स पुरोडाश -