पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | तयेष्ट्या यजेत | इष्ट्वा च तत्तदूर्ध्वमन्यामिष्टिमनुल्त्रणामन्यूनानधिकां यथाशास्त्रं तन्वीत विस्तारयेत् । यथाशास्त्रमनुष्ठितो यज्ञः पूर्वस्य विकलस्य यज्ञस्य प्रायश्चित्तिः । द्वादशे प्रश्नोत्तरे दर्शयति तदाहुर्यस्याग्निहोत्रमधिश्रितममेध्यमापद्येत का तत्र प्रायश्चित्तिरिति सर्वमेवैन - तस्रुच्यभिपर्यासिच्य प्राङदेत्याऽऽहवनीये हैतां समिधमभ्यादधात्यथोत्तरत आहवनीयस्योग्णं भस्म निरूह्य जुहुयान्मनसा वा प्राजापत्यया वर्चा तद्भुतं चाहुतं च स यद्येकस्मिन्नन्नीते यदि द्वयोरेष एव कल्पस्तच्चेद्व्यपनयितुं शक्नु - यान्त्रिः पिच्चैतदृष्टमदुष्टमभिपयसिच्य तस्य यथोनीती स्यात्तथा जुहुयात्सा तत्र प्रायश्चित्तिः । इति । सा० भा०- अग्निहोत्रार्थं पयो गार्हपत्ये पाकार्यं यदधिश्रितं तद्यदि किंचिदमेध्यं यज्ञान है केशकीटादिकमा पद्येत प्रामुयात्तदानीमेतद्धविः सर्वमप्यग्निहोत्रहवण्यां स्रुचि साकल्येन सिक्वा प्राङ्मुख उद्वेन्योत्थायाऽऽहवनीयं प्रति गत्वा तस्मिन्नेतां निन्यां सभिधमादयात् । अथानन्तरमाहवनीयस्योत्तरभागे किंचिदुष्णं भस्म ततो निःसार्य तस्मिन्मनसा नित्याग्नि- होत्रमन्त्रमनुस्मृत्य बाचा वा प्रजापते न त्वदेतानीति मन्त्रमुच्चार्य जुहुयात् । तदेतद्भस्मन उष्णत्वाद्भुतमपि भवति । अग्निराहित्यादहुतेमपि भवति । न केवलमधिश्रित एवामेध्यपात एतत्प्रायश्चित्तं किं तार्है चतुरुन्नयनावस्थायां यद्येकस्मिन्नुन्नीते यदि वा द्वयोरुन्नी तयोरमेध्य- पातस्तदानीमेप एव कल्यः प्रकारः । उन्नयनं नामाग्निहोत्रहवण्यां सेचनम् । तत्केशकीटादि 1 टूपितमग्निहॊत्रहबण्यामुन्नीतं यद्यपनेतुं शक्नुयात्तदानीमेतद्दुष्टं निःपिच्य निःसार्थ स्थाल्या. मत्रस्थितमदुष्टं क्षीरमग्निहोत्रहवण्यामभिपर्यासिय यथोनीती स्यादुन्नीती येन प्रकारेण भवति तेन प्रकारेण जुहुयात् । अदुष्टं द्रव्यान्तरमधिश्रयणा दिना संस्कृत्य जुहुया. दिव्यर्थः । त्रयोदशे प्रश्नोत्तरे दर्शयति- ताहर्यस्याग्निहोत्रमधिश्रितं स्कन्दति वा विष्यन्दते वा का तत्र प्रायश्चित्ति- रिति तदद्भिरुपनिनयेच्छान्त्यै शान्तिर्वा अपोऽथैनदक्षिणेन पाणिनाऽभिमृश्य जपति । इति । - 4 सा० भा० – अग्निहोत्रद्रव्यं गार्हपत्ये पाकार्थमधिश्रितं सदा चिकन्दति स्खलति क्षीरबिन्दुरधः पततीत्यर्थः । विष्यन्दते विशेषेण स्यन्दनं दाहाधिक्न स्थालीमुखस्योप- र्युद्गननं तत्स्कन्नं विष्यन्दितं वा द्रव्यं दक्षिणेन पाणिना स्पृष्ट्वाक्ष्यमाणं मन्त्रं जपेत् ।