पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | अथ व्यवधानप्रायश्चित्त विशेषः । चक्रीवता व्यवाये शुना व्यवाये पुरुषेण व्यवाये गार्हपत्याहवनीयावन्तरेण गामति - क्रम्य गार्हपत्याहचनीययोरन्तरं भस्मराज्योदकराज्या च संतनुयात् । प्रतिराजि मन्त्रावृत्तिः । तत्र मन्त्रः- तन्तुं तन्वब्रजसो भानुमन्विहि ज्योतिष्मतः पथो रक्ष धिया कृतान् । अनुलवणं वयत जोगुवामपो मनुर्भव जनया दव्यं जनम् || १५९ तत आहवनीयमनुगमयित्वा गार्हपत्यात्पुनराहवनीयं प्रणीय तं प्रणीतमाहवनीयमुप- तिष्ठेत । तत्र मन्त्रा:- यदग्ने पूर्व प्रहितं पदं हि ते सूर्यस्य रश्मीनन्वा ततान | तत्र रयिष्ठामनुसंभवता सं नः सृज सुमत्या वाजवन्या । त्वमने सप्रथा असि जुष्टो होता वरेण्यः । त्वया यज्ञं वितन्वते ॥ इति । शुना व्यवाये त्वयं पुनर्विशेषः - गवातिक्रमणं कृत्वा भस्मराज्युदकराजिभ्यां संतानं कृत्वा शुनः पदं अस्मना पूरयेत् । प्रतिपदं मन्त्रावृत्तिः । मन्त्रस्तु– इदं विष्णुर्विचक्रमे त्रेधा निर्धे पदम् । समूहळमस्य पाँसुरे ॥ तत आहवनीयानुगमनोपस्थानान्तं पूर्ववत् । अत्रैवं क्रतः–१ संकल्पे तत्तन्निमित्तोच्चारः कार्यः । यथा- आहवनीयाग्ने: शम्यापरासदेशातिक्रमणनिमित्त जनितप्रत्यवाय परिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थमिति । तत्रैवम् । अतिक्रान्ताग्नेरि॑िं त एकमिति पूर्वोक्तमन्त्रेणाऽऽहवनीयायतने समोप्य ततः संकल्प्य पूर्णाहुतिः । २ अन्याग्निहोमजनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थमिति ब्रूयात् । सति निमित्त स्वमग्निं प्रणीय पूर्णाहुतिं जुहुयात् । नास्त्यत्रानुगमनप्रणयने । ३ स्वाग्निष्वन्ययजमानकर्तृकहोमजनितप्रत्यवायेत्यादि पूर्ववत् । ४ स्वाग्नीनां मध्येऽन्याग्निव्यवाय जनितप्रत्यवायेत्यादि पूर्ववत् । नात्र गवातिक्रमणादि । ५ अग्निहोत्र उपसन्ने यजमानश्चक्रीवता व्यवाये गानतिक्रमग्य सस्मराज्युदकराजिभ्यां