पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | २१५ मध्येऽग्निहोत्रं न सहते । आश्वलायनसूत्रिभिस्वतनो वृत्तिकृता प्रदर्शितः पन्था अनम र्तव्यः । दर्शपूर्णमासावारप्स्यमानोऽन्वारम्भणीयाम् | ( आश्व० श्र० सू० २ १ ८।१।) वृत्तिः- पूर्वं दर्शपूर्णमासयोः स्वरूपमात्र मुक्त मिदानी तयोरनुष्ठानारम्भ उपते । इदानीं तावारप्स्यमानस्यान्वारम्भणीयाविधानात् । यस्मादावानानन्तरमजस्त्राग्निहोत्र पिण्ड पितृ- यज्ञानुक्त्वाऽनयोरारम्भ उच्यते तस्मादेत साधितं भवति । पौर्णमास्यामाधानमिष्टिं च कृत्वा ततोऽजस्रधारणमग्निहोत्रहोमं च कृत्वाऽमावास्यायां पिण्डपितृयज्ञं च कृत्वा पौर्ण- मास्यां तयोरारम्भ इति । तत्र यदापस्तम्बवचनम् - - पौर्णमास्यां तु पूर्वस्मिन्पर्वणि सेष्टि सान्त्रारम्भणीयमपवृज्य श्वोभूने पौर्ण- मासेन यजेत | इति । अस्यायमर्थः—पौर्णमास्यामादवानस्तदहरेत्र पौर्णमासीमार मेनेति । तस्यायं विषयः । यस्यां पौर्णमास्यामन्वारम्भणीयापर्यन्तं सर्वं प्रतिपत्पञ्चदशीसंधिक्षणामागेव कर्तुं शक्यते साऽस्य विषयः । संध्यनपगमा पौर्णमास्यधिकारमाप्तिः । इत्येकस्मिन्नहनि य उत्तरस्मि- न्क्षणे दर्शपूर्णमासावारभते स तस्मात्पूर्वस्मिन्क्षणे तावारस्यमान इत्युच्यते । तस्यामन्वा- रम्भणीया कर्तव्या ततोऽयं क्रमः खण्ड खण्डपर्वोपाधित्वेन कल्पनीय इत्यलम् | खण्डपर्वपौर्णमास्यामेवं क्रमः- १ पौर्णमास्यां खण्डपर्वणि प्रातः सेष्ट्यावानम् । २ अजस्रधारणम् । ३ अग्निहोत्रारम्भः | ४ अमायां पिण्डपितृयज्ञः । ५ तत आगामिन्यां पौर्णमास्यामन्त्रारम्भणीया | ६ ततः पूर्णमासान्वाधानम् । ७ सायमग्निहोत्रम् | ८ प्रतिपदि प्रातरग्निहोत्रम् । ९ प्रतिपदि प्रातः पूर्णमासयाग: अखण्डपर्वपौर्णमास्यामेवं क्रमः-- १ चतुर्दश्यां ब्रह्मौदनान्तं कृत्वः |