पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | २४३ बादिवाक् षु प्रहणसंस्कारविधिपरेषु द्रव्यदेवतासंबन्धभेदादभ्यासस्तद्वत् । तस्माद्यावज्जीव कालकोऽभ्यस्तरूप एक एव कोम्यप्रयोग इति फलतीति पूर्वः पक्षः । सिद्धान्तयति- 66 कर्तुर्वा श्रुतिसंयोगात् " ( पू० मी० २ १४ | २ ) (6 वृत्तिः—वाशब्द एवार्थे । धर्म इत्यनुवर्तते । एकस्यैव काम्यप्रयोगस्य यावज्जीव- कालमभ्यासो नात्र विधीयते किं तु जीवने निमित्ते नियमेन भिन्नः प्रयोगः पुरुषधर्म तया विधीयते । कुतः—श्रुतिसंयोगात् । एवं सत्येच यावज्जीवपदस्य यजेश्च मुख्यवृत्तिक त्वसंभवात् । कर्मधर्मत्वे हि “ यावति विन्दजीयो: " ( पा० सू० ३ | ४ | ३ ) इति सूत्रविहितणमुल्प्रत्ययान्त:य " अव्ययकृतो भावे भवन्ति " इनि जीवनक्रिया- वाचिनः काले लक्षणा स्यात् । एकस्या यागक्रि या यावजीवकाल : बन्धानुपपत्त्या यजि- नाऽप्यम्पासो लक्षणीय: स्यात् । न च यथा पौर्णमास्यां पौर्णमास्या यजेत इति विहितक.लैकदेशे सकृउनुष्ठानेनापि शास्त्रार्थसिद्धिस्तथा यावज्जीवकालैकदेशे सकद- नुष्ठानेनापि शास्त्रार्थसिद्धिसंभवान्नाभ्यासलक्षणेति वाच्यम् । अपौर्णमासीन्यावृत्त्यर्था चोद- नेति युक्ता तत्र सकृदनुष्ठानेन शास्त्रार्थसिद्धिः । इह तु चोदनाऽजीवनकालव्यावृत्यर्था न भवति तदा कर्मणोऽनुष्ठानस्याप्रसक्ते । किंतु समस्तजीवनकालग्रहणार्थेव चोदनेत्य- भ्यासलक्षणा दुर्वारा । तत्र ‘‘ यावति विन्दजीवोः इति णमुविधायकं सूत्रम् | तत्र " समानकर्तृकयोः पूर्वकाले " ( पा० स० ३ | ४ | २१ ) इत्यनुवर्तते ४ ' णमुद्' इति च । यावत्युपपदे सम नकर्तृकयोः क्रिययोर्मध्ये पर्वकालिक क्रियवृत्ते न्दतेर्जीवतेश्च णमुल्स्यादित्यर्थः | जीवतेश्च प्राणध रणमर्थ: । प्राण उच्छ्रासो नासाबहि- र्निर्गतो वायुत्रिशेषः । तस्य धारणं नासिकयाऽन्तराकर्षणम् । “ अव्ययकृतो भावे " इति वचनाण्गमुळन्तस्यापि जीवनक्रियाऽर्थः । पौर्वापर्यं] समानकर्तकत्रं च द्योत्यम् । यावच्छब्दो जीवनं सामस्येन विशिनष्टि | तच्च जीवनं समानकर्तृकयोरिति क्रियान्तरसं- बन्धे विहितेन णमुल्प्रत्ययेन होमाद्यन्वयितया प्रतीयते । स च संबन्धो यदि जीवनस्य होमादिक्रियायाश्चाङ्गाङ्गिभावादिः स्यात्तर्हि सर्वेष्वपि जीवनेष्ववश्यं होतव्यमित्यर्थस्यासिद्धे- र्यावच्छन्दार्थस्य प्रा'त्यभावादनुवादो नावकल्पेत । नापि विधातुं शक्यते जीवनानामयुग- पत्कालकत्वेन तत्सामस्त्यस्य कर्मणि विधानासंभवात् । ततश्च यथा भावलक्षणे विहिता सप्तमी भावं प्रति लक्षणत्वं निमित्तत्वे सति घटते नान्यथेत्यर्थानिमित्तत्वेऽवतिष्ठते तथा यावच्छब्दबऊदेव संबन्धसामान्यत्राची णमुल्प्रयो निमित्तनैमित्तिकभावेऽवतिष्ठत इति जीवनस्य तावन्निमित्तत्वम् । एव च जीवने निमित्तेऽग्निहोत्रं प्रयोक्तव्यमित्यर्थः सिद्धः । नैमित्तिकश्चायं प्रयोगः “ धर्मेण पापमपनुदति" इतिश्रुतपापचयार्थः । 46