पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४४ अग्निहोत्रचन्द्रिका | • अकुर्वन्विहितं कर्म निन्दितं च समाचरन् । प्रसजंचेन्द्रियार्थेषु नरः पतनमृच्छति ॥ विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् । अनिग्रहाचेन्द्रियाणां नरः पतनमृच्छति || इतिस्मृतिसिद्धस्याकरणप्रयुक्तप्रत्यवायस्य परिहारस्वानुष ङ्गिकः । नरकेषु पतत्यनेनेति पतनं पापम् । ऋच्छति प्राप्नोति । अत्र विहिताकरणजन्य प्रत्यवाय प्रागभाव परिपालनं नित्यकर्मणां फलमिति केचित् | तन्न | प्रत्यवायो हि न कर्ममात्रातिकमा किंतु विहित कर्मातिक्रमात् । अकुर्वन्विहितं कर्मेति वचनात् । ततश्च सिद्धे विधौ विहितकर्मातिक्रमा- प्रत्यवायावगमोऽवगतस्य प्रत्यवायस्य परिहाराय च विधिरित्यन्योन्याश्रयः । अतः पापक्षय एव फलम् । तच्च पापमिह जन्मनि जन्मान्तरे च संचितम् । ' धर्मेण पापमपनुदति । ' 6 " पूर्व संध्यां जपंस्तिष्ठनैशमेनो व्यपोहति । कषाये कर्मभिः पके । इत्यादिश्रुतिस्मृतिभ्यः। न च निमित्तोद्देशेन पापक्षयरूपफलोद्देशेन च कथं कर्मविधि- र्वाक्यमेदप्रसङ्गादिति वाच्यम् । न ह्येकमेव वाक्यं निमित्ते फले च कर्म विधत्ते । किंतु यावज्जीववाक्यं निमित्ते कर्म विधत्ते । अन्यच्च श्रुतार्थापत्तिकल्पितं वाक्यं फले विधत्त इत्यदोषः । न चैवमप्युद्देश्यद्वय एकस्य विधिविरुध्यत इति वाच्यम् । न हि द्वयो रेकरूप. मुद्देश्यत्वमस्ति । निमित्तस्य हि सिद्धत्काररूपमुद्देश्यत्वं पापक्षयस्य तु स्वारसिक प्रवृत्ति विषयत्वात्मकप्रयोजनत्वरूपम् । न ह्येवंविधयोरुद्देश्ययोः फलनिमित्तयोरेकत्र विरोधोऽस्ति । यदि हि निमित्तमपि फलवत्कर्मजन्यं स्यात्तदा द्वयोरप्येकप्रकारसंबन्धाद्विरोधः स्यात् । प्रत्युत निमित्ते कर्म क्रियमाणं किं प्रयोजनमिति सुतरामपेक्षते निमित्तेऽवश्यकर्तव्यताया नैष्फल्ये सत्यनुपपत्तेः । अतश्च निमित्तत्रलेनापेक्ष्यमाणं फलं कथं तेन विरुद्धं स्यात् । ननु निमित्त वमुपलक्षणत्वं ज्ञापकत्वं व्याप्यत्वरूपं व्याप्तिश्च यदा यदा जीवनं तदा तदा कर्मे व्येवरूपाऽन्यथा कर्माणि कदाचिजी वनसंबन्धस्यावर्जनीयत्वेन तत्प्रतिपादनानर्थक्यात् । तथा च व्याप्या निमित्त कर्मण आवश्यकत्वरूपनियमोऽर्थाद्गम्यते । अनावश्यकत्वे निमित्ते सत्यपि कदाचित्कर्मणोऽकरणे निमित्तत्वव्यावातात् | एवं च तस्य फलार्थत्वे फलेच्छायामस त्यामननुष्ठान सति निमित्तत्वं ब्याहन्येतेति चेत् । न हि काम्यत्वनैमित्तिकत्वयोः स्वरूपेण विरोधोऽस्ति फलेच्छायाः कादा चित्कमेव हि तद्विरोधे बीजम् । प्रकृते च न पापक्षयस्य कदा- चित्कस्यचिदप्यनिच्छाऽस्ति दुःखाधायकपापनिवृत्तेः सर्वदाऽभिलषणीयत्वात् । न च येन पापं नैवाऽऽचर्यते तस्य न तदिच्छेति वक्तुं शक्यम् । इह जन्मन्यनाचरणेऽप्यनादिजन्मान्त- रप्रवाहार्जितपापराशिक्षयेच्छाया अवर्जनीर्यत्वात् । न च ब्रह्मलोकान्तविरक्तस्य मुमुक्षोर्न