पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | २४५ तदिच्छेति वाघ्यम् । मुमुक्षुणाऽपि पापक्षयस्यावश्यमभिलपणीयत्वात् । नह्येतञ्जन्मनि जन्मान्तरेषु चार्जितेषु नरकप्रापकेषु सत्सु मोक्षः संभवतीति भवति पापक्षयः फलम् । विरक्तस्य कर्मानधिकारात् ।' यदहरेव विरजेत्तदहरेव प्रव्रजेत्' इत्युपनिषद्वाक्यात् । तावत्कर्माणि कुर्वीत न निर्विद्येत यावता | इत्यादिस्मृतेश्च । तत्र क्रिमिक भावाद्याधायकं पापान्तरं प्रत्यवायरूपं नित्यकर्माकरणादु- त्पद्यत इति श्रुतिस्मृतिभ्यो गम्यते । तत्र ज्ञानकर्मपरिभ्रष्टानधिकृय – पन्थानौ न विदुस्ते कीटपतङ्गाः' इत्यादिश्रुतिः । एतौ एतद्यो न विजानाति मार्गद्वितयमात्मनः । न · दन्दशूकः पतङ्गो वा कीटो वा जायते ध्रुवम् ' || , ‘ अकुर्वन्विहितं कर्म ' इत्यादिस्मृतिश्च | तत्परिहारो नित्यकर्मणामानुपङ्गिकं फलमि- अधिकारलक्षण्यां सर्वशक्त्यधिकरणे टुष्टीकार्तिकतन्त्ररस्मयोः स्पष्टम् । एवं च जीवने निर्मित्ते कर्मणः पापक्षयार्थतया विधौ नियमोऽप्यर्थसिद्धः । “ कर्तधर्मो नियमश्रोद्यते " इति भाष्यादिग्रन्थस्याप्येवमेत्राऽऽशयः । जीवनं च सायंप्रातः कालावच्छिन्नं निमित्तमि यधिकारलक्षण्याम् । ' तेषामौत्पत्तिकत्वात् " - इत्यधिकरणे स्पर्धकृतं भगवद्भिर्भाष्य- वार्तिककद्भिरित्यास्तां तावत् ॥ २ ॥ - इतोऽपि कर्तृधर्भ इत्याह- ८ ' लिङ्गदर्शनाच कर्मधर्मे हि प्रक्रमेण नियम्येत तत्रानर्थकमन्यत्स्यात् ' । ( पू० मी० २ | ४ | ३) । - वृत्तिः—“ तमतिनीय चतुर्गृहीत माज्यं जुहुयात् " इत्यग्निहोत्रस्य स्वकालातिकमे प्रायश्चित्तस्य वारुण्यादीष्टिविधानादपि लिङ्गान्न कर्मधर्मः | कर्मधर्मे हीति - काम्यप्रयोगस्य । शेषतया यावज्जीवनकाले विधीयमाने प्रक्रमेण प्रक्रान्तेन यावज्जीवनकालेन काम्यप्रयोगो नियम्येत । ' यम उपरमे ' । सम|प्येत । एवं च कर्मधर्मपक्षे यावज्जीवमभ्यस्तरूप- स्यैकस्य प्रयोगस्य फलार्थतया मध्ये समायभावेन जीवनदशायां न कोऽपि हुतवानग्नि- होत्रमिति यावज्जीवनकालोत्तरमेवाग्निहोत्रीति वक्तव्यम् । यथैन्द्रवायवादियज्यभ्यासे कृत्स्ने निवृत्ते सोमयाजीति तद्वत् । तथाविधस्य चाग्निहोत्रिणस्तत्र तस्मिञ्जीवने समाप्ते सति अन्यत्स्वकालातिक्रमप्रायश्चित्ततया वारुणीष्टयादिविधानम् । नापि जीवनोत्तरकाले तस्य स्वकालत्वाभावात् । तदानीं कर्तुर्भुजमानस्याभावेन प्रायश्चित्तविष्यसांगत्याच्च । कर्तृधर्मत्वे व यावजीवनकालो न कर्माङ्गम् ॥ ३ ॥ 13