पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | २५७ ६ बर्हीरूपम् –कुशकाशादि । ७ समिद्रपम्-पलाशोदुम्बरादि । एवमन्यत्सर्बमाचमने प्राङ्मुखोदङ्मुखःआदिकं वदन्ति ते परास्ताः । कालादीनां पृथ- गुपदेशवैयर्थ्यात् । अशक्यानुष्ठानप्रसङ्गाच्च । पूर्वैव योनिः पूर्वावृत्पुनराधानकर्माणि । इत्यादिवचनवैयर्थ्याच्चेति संक्षेपः । अनेन केचन स्वपाण्डित्यरूपापनार्थं पुराणोक्तवतैकादश्यायुगेष्वग्निहोत्राद्यनुष्ठानं नानुतिष्ठन्ति ते तु शास्त्रबहिर्गता इति विद्वगोष्ठीनिवेशनानी इत्यलं तदाचारविचारेण । अन्यत्सर्वमप्यग्निहोत्र.बेपये सूत्राम्नायमीमांसनाविरोधि यदनुटानं तलुकिया विचार्या - नुष्ठेयमिति बिदुषांमतिगोचरः पन्थाः । इत्यलमतिविस्तरेण । इत्यग्निहोत्रमीमांसा । पक्षहोमशेष होमसमस्यहोमानामनुक्तमन्यतो ब्राह्ममिति न्यायादरमःसूत्राविरुद्धवारद्वाजा दिभिः सूत्रितत्वादापस्तम्बाश्वलायनाचार्यैरपीङ्गितेन सूचितत्वादापत्कालोपयोगिनां ग्रन्थे निबन्धनमिति मन्तव्यम् । अथ प्रवास विधिमीमांसनम् | आहिताग्निना प्रवासः कर्तव्यो वा न वेति चिन्तन आपदि कर्तव्य इति प्राप्नोति । कथमापदीत्येतत्समधिगतमुच्यते प्रवत्स्यन्नम्नीन्मज्यश्येत्याचार्यसूत्रम् | प्रवसति यजमाने निव्यहोमा नुमन्त्रणप्रभृतयो विधयो लुप्यन्ते । न हि लोपः शास्त्रीयो भवति । तस्मादापदि प्रवासः । प्रवासकालनियमोऽस्ति वा न वा । अस्तीत्युच्यते । पर्वपर्यन्तं प्रवसितुं शक्यम् | पर्वणि तु स्वयं पर्वणि जुहुयादित्युक्तत्वात्पर्वण्यवश्यं यजमानेन होतव्यम् । अन्यदपि मह- त्यामापदि प्राप्तायां पर्वण्यपि प्रवासः शक्यते । प्रवसत्यमे हविर्निर्वस्यामीत्या पस्तम्बाचा- र्येण सूत्रितत्वात् । ततोऽप्यन्ततो गत्वाऽपि महत्तमायामापदि प्राप्तायामासंवत्सरं प्रत्रासम र्यादा न ततः परम् । इयमनुज्ञाऽपि विमताऽस्ति तथाऽपि निर्दिशामः । तत्प्रामाण्यविषये भूमिदेवा एव नः प्रमाणम् । वृत्तिः - अथ पवित्रेष्ट्यामधिकारिणमाह - सैषा संवत्सरमतिप्रवसतः । ( आ० श्रौं० सू० २ | १३ । ) कर्तव्येति शेपः यः संवत्सरमतीत्य प्रवासं करोति सोऽतिप्रवसंस्तस्यैषा कर्तव्ये - त्यर्थः । इह प्रवसत इति पुंस्त्वमुपलक्षगं पत्न्यामपि प्रवसन्त्यामिष्टत्वात् । तथा च बौधा- यन: - पथो एतत्सोऽपरिमितं प्रवसति । न संवत्सरमतिप्रवसतीत्येवेदमुक्तं भवति । स चेद तिप्रवसेत्पवित्रेष्ट्या यजेतेति । अथो एतत्सोऽपरिमितं प्रवसति न संवत्सरमतिप्रवसती- -