पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | ‘ अग्नये ज्योतिष्मते पुरोडाशमष्टाकपालं निर्व॑पेयस्याग्निरुद्धृतोऽहुतेऽग्निहोत्र उद्वायेत् । इति । तत्र संशयः—यदा दर्शार्थेनोद्धृतोऽग्निरग्निहोत्रकाल उद्वाति किं त्दा ज्योति- ष्मतीष्टिः कर्तव्या नेति । तदर्थमिदं विचार्यते – किमग्निविशिष्टोद्वानानिमित्तमिदं कर्मा ग्निहोत्रस्याऽऽ।दुपकःरकमुतोद्वानपरीताग्निनिमित्तं तस्यैवानरुत्पादकं सामवायिकमिति । - किं प्राप्तम् - ' • उदायोदिति लिश्रुत्या धात्वर्थस्य निमित्तताम् । बदत्यग्नेस्तु वाक्येन तस्मादारादुपक्रिया ' || २६९ ★ यदा हि वाक्यमम्याग्निनिमित्तत्वातिरस्कारेण पदश्रुत्योद्वानस्य निर्मित्तता तदोद्वानस्य क्रत्व नङ्गत्वेनासंस्कार्यत्वादग्नेस्तु विशेषणत्वेन कार्यान्वयाभावादारा दुपकार कत्वमेवेतिनिमि- तस्य च प्रकरणेन विशेषणासंभवादर्शार्थस्याप्युद्धृतस्याग्नेरुद्वाने संजातं निमित्तमिति कर्त- व्येष्टिरिति प्राप्ते ब्रूमः — उद्वानस्याग्नियुक्तस्य नित्यत्वान्न निमित्तता । न च तस्याग्निना व्याप्तिः कदाचिदपि विद्यते || अग्निसंबन्धस्तावदुद्व।नपर्यायस्य विनाशस्यावयवशः सर्वदा विद्यमानो न निमित्तं भवति । न च विनाशस्य चिन्तित निमिषितादिषु सर्वदा विद्यमानस्याग्निना वा व्याप्तिः संभवति यो निमित्तं स्यात् । उद्वानपरीतस्य त्वग्नेर्निमित्तता युक्ता | कादाचिकी हि तेनाग्नेर्व्याप्तिर्नतु सदातनी । यद्यभ्यग्नेरप्युद्वानसंबन्धो नित्यस्तथाऽपि व्याप्तिरनित्या तेनाग्निरेवात्रोद्वानव्याप्तो निमित्तम् । तस्योद्वानपरीतस्य कार्यायोग्यस्योत्पत्त्यर्थेयमिष्टिर- ग्निहोत्राङ्गमग्निहोत्रार्थस्य चाग्नेरुद्धृतस्पोत्पादनं कुर्वति अग्निहोत्रा स्पान्नान्यार्थस्त्र | तस्माद्दर्शार्थनामा बुद्धृत उद्वाने नैतप्रायश्चित्तम् । सूत्रार्थः–प्रसङ्गादग्निहोत्रोपकार के दार्शिके प्रायश्चित्तं न विद्यते परार्थत्वात् । अग्नि- होत्रार्थ एव प्रायश्चित्तं यस्मा द्विधीयत इति । धारणे च परार्थत्वात् (जै० त० ९ । ४ । २९ )। क्रियार्थत्वादितरेषु कर्म स्यात् ( जै० त० ९ | ४ | ३० ) । दीपिका – इदमाम्नायते- 6 धार्यो गतश्रिय आहवनीय: ' । इति । तत्र यदा ध्रियमाणोऽग्निहोत्रकाल उद्धाति तदा किमिष्टिः कार्या नेति संदेहे-