पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पयभावेऽप्यवश्यप्रवृत्तिसिद्धयर्थमर्थान्तरं कल्प्यते तर्हि निषिध्यमानक्रियार्जन्यप्रत्यवाय परिहारार्थतयैव तद्वर्जनस्य पुरुषार्थत्वसिद्धावपि फलान्तरं कल्येत । स चैत त्कस्यचिदपि । संमतम् । ननु यथा निषिद्धेष्वर्थवादावगतप्रत्यवायपरिहारार्थतयैव पुरुषार्थत्वं तथा विहितेष्वप्यर्थवादाघगताननुष्ठानजन्यमत्यवायपरिहारार्थता कस्मान्न स्यात् । मैवम् । नहि सर्वत्रान्निहोत्रादिषु तथाविधार्थवादाः सन्ति । न च * विहि तस्याननुष्ठानान्नरः पतनमृच्छति ? इति स्मृतिरेवार्थवादस्थानीयेति युक्तम् । नहि प्रन्थान्तरस्थविधीनां ग्रन्थान्तरस्थं वाक्यमर्थवादः संभवति । भवतु वा कथं. चिदेकवाक्यतयाऽर्थवादस्तथाऽपि नाभावरूपमननुष्ठानं कार्यान्तरं जनयितुं क्षमम् । ननु ' ज्वरे चैवातिसारे च लङ्घनं परमौषधम् ? इत्यायुर्वेदवचनाद्भोजनाभावरूपं लङ्घनं अवरशान्ति जनयतीति यथाऽवगम्यते तथाऽत्रापि भवितुमर्हति । मैवम् । यतो नात्रापि लङ्घनाञ्वरशान्तिः । किं तर्हि ज्वरनाशप्रतिबन्धकभोजनाभावे सति जठरानलि पाकजनिताद्धातुसाम्यादिति मन्तव्यम् । तस्मात्कथमननुष्ठानात्प्रत्यवायोत्पत्तिरुपपद्यत इति चेदुच्यते--अत्र ग्रत्यवायो नाम न भावरूपोऽभिप्रेतः किंतु कर्मन्तराधिकारानुत्पत्ति रूपः । तस्य च कर्मणामधिकारसिद्धिहेतुत्वबोधकेन विधिनैव व्यतिरेकात्सिद्धिः । प्रत्य बाङ्कस्य भावरूपत्वे तु नित्यानुष्ठानकाले तदननुष्ठानम्, तत्र प्रकृतिप्रतिबन्धकं प्रत्यवायं ज्ञापयतीति वा तदननुष्ठानस्य प्रत्यत्रायज्ञापकत्वं बोध्यम् । केचित्तु नित्याननुष्ठानस्य ऽपि तत्कालकृतकर्मान्तराणां तज्जनकत्वमित्यपि वदन्तीति न किं. विपरमपीदं विल्यत्वमवश्यकार्येत्वरूपम् । तच फलेनं कर्तुरवश्वं योजयितृत्वम् । नन्वेवं फूलमनिच्छता न कार्यमिति चेन्न । एतादृशेषु स्थलेषु प्रत्यवायपरिहारस्यैव फलत्वकल्पनात् । तस्य च सर्व प्रतीष्टत्वात् । ननु विश्वजिन्न्यायेन स्वर्गः किमिति न कल्प्यते ! मुमुक्षुभिरप्रार्थितत्वात् । प्रत्यवायपरिहारस्तु तैरपीष्यत एव । नन्वेवं विश्व . जित्यपि प्रत्यवायपारंहार एव फलं स्यात् । तत्रापि * सर्वान्प्रत्यविशिष्टत्वात् ? इत्युक्त त्रात् । .नेत्युच्यते, गैौरवात् । तथाहि-प्रत्यवायो हि न तावत्स्वरूपेण फलमपुरुषा र्थत्वात् । न च तप्रागभावः । तस्य स्वयमेव सिद्धत्वात् । न तद्ध्वंसः । उत्पन्नस्य दुःखस्य स्वंयमेव विशरणात् । ततश्च प्रत्यवायावच्छिलं तद्धेतुं च निरूप्य तदभावः फलं कल्पयि तव्यमिति गौरवम् । सुखस्य तु स्वयमेव साध्यत्वं सुकल्पमिति लाघवम् । तेन सुख रूपे तावत्साध्ये कल्पयिष्ये पशुपुत्रादिसुखविशेषपेक्षयाऽनवच्छिन्नसुखरूवस्य स्वर्गस्य

  • सर्वान्प्रत्यविशिष्टत्वात्' इति विशेष उच्यते । नन्वेवमन्निहोत्रादिष्वपि गौरवात्प्रत्य

वायपरिहारः फलं न सिध्येदपि तु लाघवात्स्वर्ग एवेति चेन्न । वैषम्यात् । यत्र निमित्तं श्रूयते तत्रैवावश्यकार्यत्वप्रतीया निमित्तवतामाधकारिणामसंकुचितानां सर्वेषां फलसाधन