अमिहोत्रचन्द्रिका | अन्तेवासी वा ॥ ४९ ॥ दे० भाष्यम् - अन्तेवासी शिष्यो भवति । स चेतरं कालं शेषं कालं जुहुयात् । बेदग्रहणार्थं यो वसत्युपाध्यायं सोऽन्तेवासी । यः कृत्स्नमधीते स शिष्यः । ब्रह्मचारी च जुहुयादन्येषाम् ।। ४९ ॥ २५ वृत्तिः– इतरस्मिन्कालेऽग्निहोत्रं जुहुयादिति शेषः । अन्ते समीपे बसतीत्यन्तेवासी । स पुनः पुत्रः शिष्यो वा। अत्र किंचिदुच्यते - ऋत्विजस्त्रित्रिधाः । देवभूताः पितृभूता मनुष्य- भूता इति।ये कर्मणि कर्मणि त्रियन्ते ते देवभूताः | येऽन्त्रयागता ऋत्विजस्ते पितृभूताः । ये त्वेकस्य पुरुषस्य सर्वाणि कर्माणि कर्तुं वियन्ते ते मनुष्यभूताः । तत्र यस्याऽऽहिताग्नेः पितृभूता मनुष्यभूता वा ऋत्विजः सन्ति तेषामुविजामेकः कश्चित्पर्ववर्जितेषु कालेषु जुहु- यात् । यस्य तु देवताभूतास्तस्यान्तेवास्येवेति निवेशः ॥ ४९ ॥ स्पृष्ट्वोदकमुदङ्ङावृत्य भक्षयेत् ॥ ५० ॥ दे० भाष्यम् - स्पृष्ट्वोदकमप उपस्पृश्योदडावृत्योदीची दिशमानृत्य हविर्यद्भुत- शिष्टं तस्य गृहीत्वा भक्षयेत् । मन्त्रं वक्ष्यति । उदकस्पर्शने कारणाभावादप्सु श्रद्धेत्यप उपस्पृश्येति तमेवानुबदति ॥ ५० ॥ - वृत्तिः - उक्तमेबोदको पस्पर्शनं कृत्वोदगादृत्य स्रुग्गतं शेषं भक्षयेत् । उक्तसंकीर्तनमा- हिताग्न्यधिकारे सत्यपि होमकर्तृप्रापणार्थम् ॥ ५० ॥ अपरयोर्वा हुत्वा ॥ ५१ ॥ दे० भाग्यम् – अपरयोरम्म्योहुवा भक्षयेद्विकल्पः ॥ ५१ ॥ •- बृत्तिःSrkris (सम्भाषणम्)भक्षयेदिति शेषः ।॥ ५१ ॥ आयुषे त्वा माश्नामीति मथमम् | अन्नाद्यायं त्वेत्युत्तरम् ॥ ५२ ॥ दे० भाष्यम् – आयुषे त्वा प्राश्नामीत्यनेन मन्त्रेण प्रथमं भक्षयेत् । प्रथमग्रहणेऽक्रि- यमाण उत्तरमित्यनर्थकं भवति । उत्तरशब्देऽनुच्यमान उभाभ्यां मन्त्राभ्यामेकं भक्षणं प्राप्नोति । ‘अन्नाद्याय त्वा' इत्येतेन मन्त्रेणोत्तरं भक्षयेत् । द्विर्भक्षणं भवति प्राश्नामीत्यनु- वर्तमाने । अन्यथाऽपरिसमाप्तेऽर्थे मन्त्रः स्यात् ॥ ५२ ॥ वृत्तिः—प्रथममुत्तरमिति भक्षयोः संबन्धकरणार्थम् । तेनोत्तरस्यापि मन्त्रस्य प्राश्ना- म्यन्तता भवति ॥ ५२ ॥ तूष्णीं समिधमाधायानये गृहपतये स्वाहेति गार्हपत्ये || ५३ ॥ [ दे० भाग्यम् - तूष्णीं समिमधिकृतेन च वचनेन मन्त्रे प्राप्ते तूष्णीमित्यमन्त्रं समि- -
पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/५७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति