पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० अग्निहोत्रचन्द्रिका | विहितः स्यात् । तद्भ्रान्तिनि॑िवृत्त्यर्थं व्युपितशब्दात्पूर्वमुपोदयशब्दं पठितवानाचार्यः । एतेषु त्रिषु कालेषु प्रधानं यथा संपद्यते तथाऽङ्गानामेवोकर्पोऽपकर्षो द्रष्टव्यः ॥ ६७ ॥ सत्यऋताभ्यां त्वेति पर्युक्षणमोमुन्नेष्यामीत्यतिसर्जनं हरिणीं त्वा सूर्यज्यो- तिषमहरिष्टकामुपदधे स्वाहेति समिदाधानं भूर्भुवः स्वरों सूर्यो ज्योतिज्योतिः सूर्यः स्वाहेति होम उन्मार्जनं च ।। ६८ ।। इत्यग्निहोत्रसूत्रम् । दे० भाष्यम् – सत्यऋताभ्यां चेति प्राप्ते पर्युक्षणस्य स्थानेऽन्यो मन्त्र आदिश्यते । सत्यऋताभ्यां त्वा पर्युक्षामीत्यनेन मन्त्रेण पर्युक्षणं जपित्वा वचनात्पर्युक्षामीति प्राप्नोती- त्युक्तम् । अन्यथा यथाम्नातं प्राप्नोति मन्त्रः | ओमुन्नेष्यामी त्यतिसर्जनस्य स्थाने भवति 1 हरिणीं त्वेत्यनेन मन्त्रेण समिदाधानं भवति । भूर्भुवः स्वरोम्३ सूर्य इत्यनेन मन्त्रेण होमो भवति । उर्म्माजनं च । अवमृष्टकुशमलेषु निमार्थत्यत्रमार्जनम् । अस्य कर्मणः स्थान उन्मार्जनं भवति । पाणिनाऽग्र ऊर्ध्वं निमार्टि तदुन्मार्जनम् । स एव मन्त्रः । अन्यत्तु कर्म । चशब्दः समुच्चयार्थः । य उक्ता मन्त्राः । इदं च कर्म । एतदन्यद्भवति । अतोऽन्यत्समानम् । सायं होमेन यावत्स्यादग्निहोत्रहोमो याजमानत्वाद्यजमानेनैव होत- व्यम् । क्षीरहोता वा जुहुयात् । वनेन हि स परिक्रीतो भवति । ब्रह्मचारी वा जुहु- यात् । ब्राह्मणो हि स परिक्रीतो भवति । परिक्रीतेन हुतं स्त्रयमेव हुतं भवति । तस्माद्या- जमानं यजमानाधिकारादिदमपि याजमानम् ॥ ६८ ॥ । इत्यग्निहोत्रसूत्रभाष्यम् । वृत्तिः– एते प्रातहोंमे विशेपाः ॥ ६८ ॥ - इत्यग्निहोत्रसूत्रे नारायणीया वृत्तिः ।