३२ अग्निहोत्रचन्द्रिका | ततः पश्चाद्गार्हपत्यस्योपविश्य गार्हपत्यादुदगङ्गारानपोहेत् । सुहुतकृतः स्थ सुहुतं करिष्यथ । इति तेष्वग्निहोत्रमधिश्रयेत् । अधिश्रितमध्यधिश्रितमधिश्रितं हि ३ म् | इत्यधिश्रितमत्रञ्चलयेदनधिश्रयं च । अग्निष्टे तेजो मा हार्षीत् । इति । पुनर्ज्वलता त्रिः परिहरेत् । अन्तरितं रक्षोऽन्तरिता अरातयः । इति परिहरणं कृत्वा तदुल्मुकं निरस्याप उपस्पृश्य समुदन्तं कर्ष निचोदगुद्रासयेत् । दिवे त्वा अन्तरिक्षाय त्वा पृथिव्यै त्वा । इति निदधत् । सुहुतकृतः स्थ सुहुतमकार्ष्ट । इत्यङ्गारान्गार्हपत्येऽतिसृज्य सुक्तुत्रं प्रतितपेत् । प्रत्युष्टं रक्षः प्रत्युष्टा अरातयो निष्टप्तं रक्षो निष्टप्ता अरातयः | इत्युत्तरतः स्थाल्याः स्रुचमासाद्य ओमुन्नयानि । इत्पतिसर्जयीत । आहिताग्निः-- आचम्यापरेण वेदिमतिव्रज्य दक्षिणत अवश्यैतच्छ्रुत्वा ( पत्नी गार्हपत्यस्य दक्षिणत आस्ते ) ओमुन्नय । इत्यतिसृजेत् । एक:-- अतिसृष्ठः- भूरिष्ठा, भुव इळा, स्वरिळा, वृध इळा | इति सुत्रं पूरयित्वा स्रुचि चतुरुन्नयेत् । ततः स्थाछीमभिमृश्य समिधं स्त्रचं चाध्यधिगार्हपत्यं हृत्वा प्राणसंमितामाहवनीयसमीपे कुशेषपसाद्य जान्त्राच्याऽऽहवनीये सां धमादध्यात् । रजतां त्वाऽग्निज्योतिषं रात्रिमिष्टकामुपद स्वाहा । इति समिधमाधाय आहिताग्निः-- अग्नये ज्योतिष इदं न मम | रजतां त्वाऽग्निज्योतिष word wee
पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/६४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति