अग्रिहोत्र चन्द्रिका | अध्वप्रमीताग्निहोत्रविधिः । १ ययाहिताशिरध्वनि प्रमीयेत तद्वार्ताश्रवणानन्तरं पाधिकृतमिष्टिं कृत्वा तदङ्गागः- मनपर्यन्तमग्निहोत्रधर्मकस्तूष्णीं होमः कार्यः । ननु कथंचिदपि यजमानदेशं प्रत्यग्नयोः नेयाः । यथोक्तं सिद्धान्तभाध्ये --- ३८ “ नासति यजमाने ग्राममर्यादामतिहरेयुः । यद्यग्नीन्हेरेयुर्लौकिकाः संपद्येरन् ।। " अथ तस्मिन्होमे विशेषः- - या मृतवत्सा वत्सान्तरेण दुह्यते तत्पयस्य होमः कार्यः । साङ्गं प्रधानम् । तूष्णीं प्रधाने प्रजापतिं मनसा व्यायेदिति वृत्तिकृत् । तन्मते वेकैवाऽऽहुतिः । नात्र तूष्णीं प्रधा- नहोमे प्रजापतिं ध्यायेदिति सिद्धान्तभाष्यकृत् । तन्मते आहुतिद्वयम् । तत्र त्यागौ, नित्यवत् । मतद्वयेऽपि सर्वहुतत्वान्न भक्षाय शेपः | सायंत्रातर्विघ्यन्तो नित्यवत् | अत्र देवत्रातः—–यजमानशरीरानयनपर्यन्तं तृष्णीं हुत्वा तदानयनोत्तरं पाथिकृतीं कृत्वा शरीरसंस्कारः कार्थः । अधः समिद्धारणं न प्राशनम् । न स्रुनिनयने, आदावन्ते. च परिसमूहूनपर्युक्षगे न स्तः । यत्पयः संस्कारात्प्राक्कर्म तल्लुप्यते । अत्र सिद्धान्तभाष्यकृत् --मुमू विषय एवायं विधिर्न मृतविषयः । मृतविषय एवायमिति वृत्तिकृद्देवत्रातौँ । यद्याहिताग्नेरपरपक्षे मरणशङ्का भवति तदा कृष्णपक्षाहुती : सर्वाः शुक्ल प्रतिपत्प्रात. र्होमेन सह पक्षहोमन्यायेन हुत्वा दर्शोऽप्यपकृष्य कार्य: । चातुर्मास्यान्तराले तस्य यानि, पर्वाण्यवशिष्ट्यनि तान्यपकृष्प कार्याणि | मरणशङ्कायमेवैष विवि.र्न मृतावस्थायाः मिति सर्वे । अत्र देवत्रातो विशेषमाह - होमार्थ तूष्णीं विहरणं होमयोरन्तरा मरणशङ्कायां पूर्वाहुत्योत्तरामाहुतिं तन्त्रेण कुर्यात् । जीवति चेपुनः काले होमा: कार्याः । अनाहि- तानैष विधिरिति । अत्र त्रिकाण्डमण्डनः- आहिताग्निः कदाचिचु कृष्णपक्षे मृतो यादे | तदा शेषाहुती: सर्वा जुहोतीत्याश्वलायनः ॥ (त्रिका ०२।११७) । मरणोत्तरं तु पक्षहोमन्यायेन क्रियमाणा आहुतयोऽध्वप्रमीतस्य होमवत्कार्याः । इष्टिीनां स्थाने पूर्णाहुतयः कार्याः । इत्यध्वममीताग्निहोत्रविधिः ।
पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/७०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति