पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | दे० भाष्यम् –यथेतं यथागतं प्रत्येत्य प्रतिगत्य गार्हपत्यं गार्हपत्यदेशं प्राप्य गार्ह- पत्यदेशात्प्रदक्षिणं दक्षिणतो विहारं कृत्वा परियाद्गच्छन्नाहवनीय मुपतिष्ठते ' मम नाम ' इत्यनेन । मन्त्रस्थस्यैवोपस्थानं प्राप्तमारादुपकारित्वात्तस्माद्यथैवमित्युच्यते । ' प्रत्यत्ये' इत्य- नुच्यमाने दक्षिणाग्निदेशादेव प्रत्यागच्छन्नुपस्थानं ब्रूयात् । प्रत्येत्येत्युक्ते समीपं गत्वोपस्थानं प्राप्तम् । कस्मादिदमुच्यते । प्रदक्षिणं परिगच्छन्नुपतिष्ठत इति । तस्माद्गार्हपत्यदेशं प्राप्य तत एवोपस्थानमन्त्रः प्रतिपद्यते । एवं ब्रुवतो दक्षिणतो विहारो भवति । ततः प्रदक्षिण- मित्युच्यते । परियन्नेवोपतिष्ठते न गत्वा । आहवनीयग्रहणं गार्हपत्याहवनीययोरधिकारात्मत्र- जेत्परियन्नुपतिष्ठत इत्युक्त उपस्थानमन्त्रं समाप्य यावदावहनीयं न प्राप्नोति ॥ ३ ॥ वृत्तिः—आहवनीयमुपस्थायोत्तरेण विहारं गत्वा गार्हपत्यस्य प्रत्यगुदग्देशेऽत्यन्तसमीपं गत्वा तमुपस्थाय तद्वदेव स्थित्वा दक्षिणाग्निमुपस्थाय तत्रैव तिष्ठन्गार्हपत्याहवनीयेक्षणं कृत्वा पुनस्तेनैव मार्गेणाऽऽहवनीयसमीपं गत्वा ततो गमनाय प्रदक्षिणमावर्तमान आहवनीय मुपतिष्ठते ' मम नाम प्रथमम् ' इत्यनेन मन्त्रेण ॥ ३ ॥ प्रव्रजेदनपेक्षमाणो मा प्रगामेति सूक्तं जपन् ॥ ४॥ दे० भाष्यम् – तीर्थदेशादेव प्रजेद्द्रच्छेदमी ननवेक्षमाणः प्रत्रजेन्मा प्रगामेत्येतत्सूक्तं जपन्गच्छेत् । सूक्तग्रहणं सकृत्सूक्तमयोगार्थम् । जपन्गच्छेदित्युक्ते गमिक्रियाया दीर्घत्वा- त्सूक्तस्याभ्यावृत्तिः प्राप्ता । अतः सूक्तग्रहणात्सूक्तमेव भवति । न पुरावर्तनम् ॥ ४ ॥ वृत्तिः -- पृष्ठतोऽग्नीननीक्षमाणो मा प्रगामेति सूक्तं जपन्यथेष्टं गच्छेत् । सूक्तग्रहणम- नभ्यासार्थम् ॥ ४ ॥ आरादग्निभ्यो वाचं विसृजेत ॥ ५ ॥ दे० भाष्यम् – आरादग्निभ्य आराद्दूरादग्निभ्यो देशेऽग्नीनामसंदर्शने वाचं विसृजेत् | विसृष्टा वाग्भबति यथाकामं भवतीत्यर्थः । वाग्विसर्गमन्त्रो न विद्यते । उत्तरकाल उप- देशात् ॥ ५ ॥ - वृत्ति:- अग्निभ्यो दूराद्गत्वा चाचं विसृजेत् । यावद्गते ऽग्न्यागारच्छादिर्न दृश्यते तावदत्राऽऽराच्छब्देनोच्यते । अत्र वाग्विसर्गविधानादितः प्राग्वाग्यत एव सर्व कुर्यात् ॥ ५ ॥ सदा सुगः पितुमाँ अस्तु पन्था इति पन्थानमवरुह्य ॥ ६ ॥ दे० १० भाष्यम् – सदा सुग इत्येतामृचं पन्थानमत्ररुह्य प्राप्य जपेत् ॥ ६ ॥ बृत्तिः—ब्रूयादिति शेषः । योऽभिलषितदेशगामी पन्थास्तं प्राप्येत्यर्थः ॥ ६ ॥ अनुपस्थिताग्निश्चेत्प्रवासमापद्येत । इहैव सन्तत्र सन्तं त्वाऽने हृदा वाचा