पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आग्नेहोत्रचन्द्रिका | ४७ अभिषु समिध उपनिधायाऽऽहवनीयमुपतिष्ठते । मम नाम तव च जातवेदो बाससी इव विवसानौ चरावः । ते विभूवो दक्षसे जीवसे च यथायथं नौ तन्वौ जातवेद इति ॥ १० ॥ दे० भाष्यम- अग्निषु समिध उपनिधायाऽऽहवनी यमुपतिष्ठते –' मम ' इत्येतेन मन्त्रेण । अभिषु समिध इति सर्वेषामधिकारादाहघनीयग्रहणम् ॥ १० ॥ वृत्तिः—इदानीमानीताः समिधो विभज्य तस्य तस्याग्नेः समीपे निधाय तत आह- चनीयमुपतिष्ठते ' मम बाम तब च ' इत्यनेन मन्त्रेण ॥ १० ॥ ततः समिधोऽभ्यादध्यात् ।। ११ ।। दे० भाष्यम् - तत उपस्थानानन्तरं या उपनिहिताः समिधस्ता अभ्याध्यात् । अभ्युपार आदध्यात्प्रक्षिपेत् ॥ ११ ॥ वृत्तिः – उपनिहिता एवास्मिन्ननेनेत्याह-- आहवनीये - अगन्म विश्ववेदसमस्मभ्यं वसुवित्तमम् । अग्ने सम्राळभिद्युम्नम- भिसह आयच्छस्व स्वाहेति । गार्हपत्येऽयमग्निगृहपतिगर्हिपत्यः प्रजाया वसुवि- तमः । अग्ने गृहपते ऽभिद्युमभिसह आयच्छस्व स्वाहेति । दक्षिणेऽयमग्निः पुरीष्यो रयिमान्पुष्टिवर्धनः । अग्ने पुरीण्याभियुम्नमभिसह आयच्छस्व स्वाहोते । गार्हपत्याहवनीयावीक्षेतेमान्मे मित्रावरुणौ गृहावजूगुपतं युवम् । अविनष्टानवि- हृतान्पूषैनानभ्यराक्षीदाऽस्माकं पुनरायनादिति ॥ १२ ॥ - दे० १० भाष्यम् – आहवनीयेऽभ्याध्यात् ' अगन्म विश्ववेदसम् ' इति मन्त्रेण | आह चनीयग्रहणं गार्हपत्यविवक्षार्थम् । अक्रियमाणे गर्हपत्यार्थ: स्यात् । गार्हपत्ये समि- धोऽभ्यादध्यादयमग्निरित्येतेन । दक्षिणे दक्षिणामौ समिधोऽभ्याध्यादयमग्निः पुरीष्य इत्येतेन । गार्हपत्याहबनीयौ गार्हपत्यश्वाऽऽहवनीयश्च गार्हपत्याहवनीयावग्नी ईक्षेत दक्षिणा- ग्निस्त्रमीप एव स्थित्वेमान्मे मित्रावरुणा वित्येतेन मन्त्रेण ॥ १२ ॥ वृत्तिः - दक्षिणाग्निसमीपे स्थित इत्युक्तम् ॥ १२ ॥ ( २ | ५ | २ सूत्रे ) यथेतं प्रत्येत्य प्रोग्य भूयो दशरात्राच्चतुर्गृहीतमाज्यं जुहुयात् – मनोज्यो- तिर्जुषतामाज्यं मे विच्छिन्नं यज्ञं समिमं दधातु । या इष्टा उषसो या अनि- टास्ता: संतनोमि हविषा घृतेन स्वाहेति ॥ १३ ॥ ० .. दे० भाष्यम् -- यथेतं. यथागतेनैव मार्गेण प्रत्येत्य प्रतिनिवृत्य प्रोष्य भूयो दश- रात्रा बढ्यो रात्रयः प्रोष्य प्रवत्स्य गार्हपत्य आज्यं विलाप्य तूष्णीमुत्पूयाऽऽहवनीयं