पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एवमस्य धमस्यानुष्ठेयत्वे सिद्धे तदनुष्ठानप्रकाराणां बोधका ग्रन्थाः क इति जिज्ञासा भवति । एतावत्कालपर्यन्तं अनुष्ठानबाधक- वैद्यमानेषु प्रन्थेषु कल्पसूत्रब्राह्मणग्रन्था मूर्धन्यः भूताः । कल्पसूत्रेभ्यो ब्राह्मणग्रन्थाः प्राचीनतमा स्तथाऽपि विधिशेषापरपर्यायार्थवादरहितत्वात्सूत्र ग्रन्थेष्वेव प्रवृत्तिः सर्वेषाम् । अथाप्यध्ययनपरम्परा ब्राह्मणग्रथानामपि जागर्ति मन्त्रार्थोपयुक्तत्वातेषाम् । अनुष्ठानविषये सूत्रग्रन्थास्तानतिशेरते केवलानुष्ठानुबोधकत्वात् । सूत्रग्रन्थानां दुरवगाहत्वात्प्रयोगवृत्यादयो ग्रन्था निरमीयन्त तैस्तैन्थकृद्भिः । यथा जाग्रत्स्वपि भाष्यवार्तिकेषु काशिका सिद्धान्तकौमुद्यादयो ग्रन्था व्याकरणशास्त्रे प्राणीयन्त धीमद्भिः पण्डित वरेण्यैः । यान्सूत्रग्रन्थान्प्रमाणीकृत्य प्रयोगग्रन्था न्यबध्यन्त विद्वरैस्ते सूत्रग्रन्ध दुर्लभाः पाश्चात्यदेशे कचित्क इदानीं भारतवर्षे स्वोत्पत्तिस्थाने चिन्मुद्यत इति प्रसक्तानुप्रसक्त्या ज्ञापयितुं दूयते चेतः । एवमास न्पूर्वप्रयोगाः परंतु तत्रपि काश्चन त्रुटयो दरीदृश्यन्ते प्रेक्षावत्प्रवृत्तिविघा तिन्यः । ताश्च यथा पूर्वप्रयोगेषु सूत्रानुसारं प्रणीतेष्वपि सूत्राणि यथा स्थानं न प्रदइन्ते । तत्र च पृथक्पृथक्प्रयोगाः ( हौत्रप्रयोगः, आध्वर्ये वप्रयोगः, ओद्भात्रप्रयोगः) प्रणीयन्ते तत्समवायेन प्रयोगद्रष्टणां वैरस्याय । किंच तत्र सूत्रार्थः प्रयोगमीमांसा च न प्रदर्शयेते । मीमांसया विना प्रयोगशास्त्रापरपर्यायेतिकर्तव्यता न समाप्यते । यत उक्तं श्रीकुमारिलभट्ट पादैर्वार्तिके * इतिकर्तव्यताभार्ग मीमासा पूरयिष्यति ? इति । प्रमाणशास्त्रप्रमाणितमतिभिः किञ्जवडेकरवा मनशास्त्रिभिः पूर्वोक्तत्रुटीर्निराकुर्वद्भिरिये श्रौत अग्निहोत्रचनि . काया अपूर्वता धर्मविषयेऽमिहोत्रचन्द्रिका निरमायि । अत्र परि भाषादिसूत्राणि यथायथं लक्ष्यानुसारं कौमुदी कृद्वैिः सूत्राणि यधा प्रविभक्तानि तथा विभज्य यथास्थानं तन्निवेशः कृतः । ततः सूत्रार्थो दर्शितः । मन्त्रार्थोऽपि प्रदर्शितः । प्रतिकर्म मीमांसाऽथ्यादृता । मीमांसाशास्त्रं प्रयोगशास्त्रेण न संबध्यत इत्येवाऽऽसीन्मतिरेतावत्कालपर्यन्तं याज्ञिकानां साऽऽयेतद्ग्रन्थालो चनतो विहनिष्यते । सूत्रप्रतिकूलाः प्रयोगान्तरगृहीता निर्देशाः परित्यक्ताः । अत्र ग्रन्थेऽझिहोत्रकुण्डादिप्रतिकृतिदर्शकमादर्शपत्रमारम्भ एव मुद्रितं तेन सर्वजनसुविज्ञेयोऽयं ग्रन्थः स्यात्तथाऽत्राऽऽधानपद्धतिशेषः समीमांसै प्रद