पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | हव्यं वह नः प्रजानन् । प्रजां पुष्टिं रयिमस्मासु घेह्यथाभव यजमानाय शं योः ॥ ३ ॥ इति समारोपविधिसूत्रम् । दे० भा० -- यदि पाण्योररण्योः समारोप्यः पाण्योर्वेत्युक्तम् । तत्र यदि पाण्योः समारोपणं कृतं भवति ततो मन्थनकांलेऽरणी पाणिभ्यां संस्पृश्य मन्थयेत् ।' प्रत्य- बरोह ’ इत्यनेन मन्त्रेण स्पृशेत् ॥ ३ ॥ इति समारोपविधिसूत्रभाष्यम् । ८ वृत्तिः—अरण्योर्हस्तयोर्वा समारोपणमुक्तम् । तत्रावरोहणकाले यजमानः प्रत्य- बरोह जातवेदः ' इत्येतं मन्त्रमुक्त्वा मन्त्रान्ते तयोररण्योरग्नि मन्थयेत्स्वयं वा मन्थेत् । एवमरणी समारोपणे। यदि हस्तयोः समारोपणं स्यात्तदैतेन मन्त्रेणारणी संस्पृश्य मन्थयेत् | यजमानो मन्थनकाले यावदग्नेर्जन्म तावदरणी संस्पृशन्नेवाऽऽस्ते । मध्यमानेऽग्नौ यद्युत्पाद- नसमर्थः प्रयत्नो निष्फलः स्यात्तदा पुनरारम्भावसरे मन्त्र आवर्तयितव्यः । एवं व्यर्थे व्यर्थे पुनः पुनरावर्तयेत् । अग्न्यवरोहार्थमरणी मन्थयेदित्येकोऽर्थः । यदि पाण्योः समालोपणं तदैवमवरोहयेत्पाणिभ्यामरणी अनेन मन्त्रेण संस्पृश्य मन्थयेदित्य- परोऽर्थः ॥ ३ ॥ इति समारोपविधिसूत्रवृत्तिः । अथ समारोपप्रयोगः । प्रातरग्निहोत्रहोमानन्तरं सगृहः प्रवत्स्यंश्चेदाहिताग्निराचम्य ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थमापन्निमित्तानं समारोपयिष्ये । इति संकल्प्यारणी गृहीत्वा अयं ते योनिर्ऋत्वियो यतो जातो अरोचथाः । तं जाननम आसीदाथानो वर्धया गिरः || ( ऋ० सं० ३-१-३३ ) इति गार्हपत्ये प्रतितप्य यदि दक्षिणाग्निभिन्न योनिस्तदा तस्यारण्यन्तरेऽनेनैव मन्त्रेण दक्षिणाम्नावरणी प्रतितपेत् । अथवा द्वौ पाणी गार्हपत्ये प्रतितपत् । तत्र मन्त्रः --- या ते अग्ने यज्ञिया तनूस्तयेयारोहाऽऽत्माऽऽत्मानपच्छा वसूनि कृण्वन्नर्या पुरूणि यज्ञो भूत्वा यज्ञमासीद योनेिं जातवेदो भुव आजायमानः । आयम्यानेन समारोपविधिना श्रीपरमेश्वरः प्रीयताम् । इति समारोपप्रयोगः |