पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | मन्थनयन्त्रकम् । शमीगर्भस्याश्वत्थस्यारणी आहरति ( आपस्तम्बश्रौ० सू० ५। १ । २ ) अश्वत्थाच्छमीगर्भादरणी आहरेत् । ( आश्वलायनश्र० सू० २ | १ | १६) अश्वत्थशमीगर्भारणी प्रयच्छति । ( कात्यायनश्रौ० सू० ४ । १९४ ) तदेतत्सर्व मनसि निधाय तत्र भगवान्कात्यायनः कर्मप्रदीपनाम्नि च्छन्दोगपरिशिष्टा- परनामधेये ग्रन्थे श्लोकर्याांबभूव - - अश्वत्थो यः शमीगर्भः प्रशस्तोवसमुद्भवः । तस्य या प्राङ्मुखी शाखा योदीची योर्ध्वगाऽपि वा ॥ १ ॥ अरणिस्तन्मयी प्रोक्ता तन्मयी चोत्तरारणिः । सारवद्दारवं चात्रमोविली च प्रशस्यते ॥ २ ॥ प्रभा --- आरणेयस्य मन्थनप्रकारं वक्तुं प्रथमं मन्थनयन्त्रघटक मरण्यादिकमाह - अश्वत्थो य इति द्वाभ्याम् । शर्मागर्भस्य लक्षणं वक्ष्यते । पवित्रभूमौ जातो यः शर्मागर्भोऽश्वत्थ- स्तस्य प्राङ्मुख्युदक्गतोर्ध्वगता वा या शाखा | अधरारणिरुत्तरारणिश्च तन्मयी मुनिभिः कथिता । चात्रमोविली च सारयुक्त खदिरादिकाष्ठनिर्मितं मुनिभिः प्रशस्यते । चात्रं नाम मन्थनदण्डः । चात्रोर्ध्वभागनियन्त्रणार्थः काष्ठविशेष ओविली ॥ १ ॥ २ ॥ शमीगर्भ:-

- शम्या गर्भः - शमीगर्भः । इति षष्ठीसमासः ।

इयं वै शमी तस्या एष गर्भो यदश्वत्थः । इति श्रुतेः । संसक्तमूलो यः शम्या शमीगर्भः स उच्यते । अलाभे त्वशमीगर्भादाहरेदविलम्वितः ॥ ३ ॥ चतुर्विंशतिरनुष्ठा दैर्घ्यं षडपि पार्थवम् । चत्वार उच्छ्रयो मानमरण्योः परिकीर्तितम् ॥ ४॥ - प्रभा - इदानीं शमीगर्भस्य लक्षणमाह - संसक्तमूल इति । यस्याश्वत्थस्य मूलं शम्या सह संसक्त्तं सम्यग्लग्नं सोऽश्वत्थः शर्मागर्भः कथ्यते । शमीगर्भस्याश्वत्थस्याला भे पुनरशमीगर्भादप्यरणिमाहरेत् । गुणलोपे च मुख्यस्येति न्यायादित्यभिप्रायः । शमीगर्भ- स्यान्वेषणया कालविलम्बो न कर्तव्य इति वक्तुमविलम्बित इत्युक्तम् ॥ ३ ॥ अरण्यादीनां परिमाणमाह ——– चतुर्विंशतिरितिद्वाभ्याम् । चतुर्विंशतिसंख्याका अङ्गुष्ठा अङ्गुष्ठा अङ्ग्गुला अरण्योदैर्घ्यं दीर्घताप्रमाणमित्यर्थः । षडङ्गुलस्तयोः पार्थवं पृथुत्वम् । तत्परिमाणमिति यावत् । चत्वारोऽङ्गुला अरण्योरुच्छ्रय उच्चतापारमाणमित्येतत् । तदेवमरण्योः परिमाणं सर्वतोभावेन कथितम् ॥ ४ ॥