पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठं काण्डम् । तृतीया || यथा॑ क॒लां यथा॑ श॒र्फ यथर्ण सं॒नय॑न्ति । ए॒वा दु॑ष्वभ्यं॒ सर्वं द्विष॒ते सं न॑यामसि ॥ ३ ॥ यथा॑ । क॒लाम् । यथा॑ । श॒फम् | यथा॑ । ॠणम् । स॒ऽनय॑न्ति । ए॒व । दुःऽस्व॒भ्य॑म् । सर्व॑म् । द्विषते । सम् । नया॒ामसि ॥ ३ ॥ [अ० ५. सू° ४७.]२२० ९१ गोरवयवैकदेशः कला | शफः खुरः । दोषदूषितं कलादिकम् अङ्गं यथा छेदनादिना अपगमयन्ति । यथा वा ऋणम अधमर्णा: पुरुषाः संनयन्ति संप्रदानेन गमयन्ति । एव एवं सर्वे दुष्वयम् दुःस्वप्नंजनितं भयं द्विषते वे जनाय सं नयामसि सम्यक् प्रापयामः ॥ चतुर्थी ॥ अ॒ग्निः प्रा॑तःसव॒ने पा॑त्व॒स्मान् वैश्वान॒रो वि॑श्व॒कृद् वि॒श्वभूः । स नः॑ पाव॒को द्रवि॑णे॒ दधा॒ात्वायु॑ष्मन्तः स॒हभ॑क्षाः स्याम ॥ १ ॥ अ॒ग्निः । प्रातःऽस॒वने। पातु । अ॒स्मान् । वैश्वा॒ान॒रः । वि॒श्व॒ऽकृत् । वि॒श्वऽश॑भूः । स। नः॒ । पा॒ाव॒कः । द्रवि॑णे । दृधा॒ातु । आयु॑ष्मन्तः । स॒हऽभ॑क्षाः । स्या॒ाम् ॥ १ ॥ 1 - [अग्निः ] | सवनत्रयात्मको हि सोमयागः । तानि च सवनानि गायत्रं त्रैष्टुभं जागतम् इति क्रमेण नियतच्छन्दस्कानि । “अग्नेर्गायत्र्यभवत् सयु- ग्वा" [ऋ० १०. १३०. ४] इति श्रुतेः अग्निर्गायत्र्या अधिदेवतेति तन्निर्व- यस्य प्रातः सवनाव्यस्य कर्मणः स एवाधिदेवता | [ प्रातः सवने ] प्रातःस- वनाख्ये कर्मणि अस्मान् ऋत्विग्यजमानान् पातु संभवद्वैकल्यपरिहारेण स- वनसंपूर्त्या रक्षतु । कीदृशः सोग्निः । वैश्वानरः विश्वनरात्मको विराडूपः स- र्वप्राणिहितकरो वा । अत एव विश्वकृत् विश्वस्य कृत्स्त्रस्य जगतः कर्ता | विश्वशंभू: विश्वस्मिन् सर्वस्मिन् जगति दुःखशमनेन सुखस्य भावयिता । स ताहग्गुणविशिष्टः पावकः शोधकोग्निः नः अस्मान् द्रविणे यागफ- लात्मके धने दधातु स्थापयतु । वयमपि तत्प्रसादाद, आयुष्मन्तः दीर्घा - १ A B दुःप्व. We with BDKKRSVC..