पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२ अथर्वसंहिताभाष्ये युषा युक्ताः सहभक्षाः समानसोमपाना: पुत्रपौत्रादिभिः सहभोजना वा स्याम भवेम ॥ पञ्चमी ॥ विश्वे॑ दे॒वा म॒रुत॒ इन्द्रो॑ अ॒स्मान॒स्मिन् द्वितीये॒ सव॑ने॒ न ज॑ह्युः । आयु॑ष्मन्तः प्रि॒यमे॑षां वद॑न्तो व॒यं दे॒वाना॑ सुम॒तौ स्या॑म ॥ २ ॥ विश्वे॑ । दे॒वाः । म॒रुत॑ः । इन्द्र॑ः । अ॒स्मान् । अ॒स्मिन् । वि॒ितीये॑ । सव॑ने । न । ज॒धुः । आयु॑ष्मन्तः । प्रि॒यम् । ए॒ष॒ाम् । वद॑न्तः । व॒यम् । दे॒वाना॑म् । सु॒ऽम॒तौ । स्याम ॥ २ ॥ 66 O त्रो मरुद्गणः विश्वे सर्वे देवाः दानादिगुणयुक्ता मरुतः एतत्संज्ञका एकोनपञ्चाशत्सं- ख्याका: सप्तगणात्मका देवाः इन्द्रश्च तेषाम अधिपतिः । एते हि मा- ध्यंदिनसवनस्य अधिपतयः । इन्द्रो मरुत्वान्त्सोमस्य पिबतु | मरुत्स्तो- [ निवि० २] इत्येवमादिनिविन्मन्त्रैः प्रतिपाद्याः । एते अ- स्मिन् परिसमाप्यमाने द्वितीये सवने अस्मान् ऋत्विग्यजमानान् न जह्युः न जहनु न परित्यजन्तु | अस्माभिर्दत्तं हविः स्वीकृत्य अस्मदीया इमे अभिमतफलप्रदानेन रक्षणीया इत्येवम् अनुग्रहबुद्ध्या युक्ता भवन्वित्य- र्थः । एषां देवानाम् मरुताम् इन्द्रस्य च प्रियम् प्रीतिकरं स्तुतशस्त्रात्मकं वाक्यं वदन्तः उच्चारयन्तो वयं तत्प्रसादाद् आयुष्मन्तः शतसंवत्सरपरि- मितेन आयुषा युक्ताः सन्तः तेषां देवानां सुमतौ शोभनायाम् अनु- ग्रहात्मिकायां बुद्धौ स्याम भवेम ॥ षष्ठी ॥ इ॒दं तृतीयं॒ सव॑नं कवीनामृतेन॒ ये च॑म॒समैर॑यन्त । ते सौधन्वनाः स्वरानशानाः स्विष्टिं नो अभि वस्यो॑ नयन्तु ॥ ३ ॥ इ॒दम् | तृतीय॑म् | सव॑नम् । क॒वी॑नाम् । ऋ॒तेन॑ । ये । च॒म॒सम् । ऐर॑यन्त । ते । सौध॒न्व॒नाः । स्वः। आ॒न॒शाना: । सुऽइ॑ष्टंम् । नः॒ । अ॒भि । वस्य॑ । नयन्तु ॥ ३ ॥ + १P ईएम. S' प्रतिपाद्याः चेतास्मिन् परि