पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ५. सू° ४७.]२२० षष्ठं काण्डम् | ९३ • 6 इदं परिसमाप्यमानं तृतीयम् त्रित्वसंख्यापूरकं सवनम् सोमाभिषवो- पलक्षितं तृतीयसवनाख्यं कर्म कवीनाम् कान्तदर्शनानाम् ऋभूणां स्व- भूतम् । त एव हि इन्द्रादिभिः सहितास्तस्य सवनस्य अधिदेवताः । तथा च तत्रत्यो मन्त्रवर्णः । " इन्द्र ऋभुभिर्वाजवद्भिः समुक्षितम् ” [ ऋ°३• ६०. ५ ] “समृभुभिः पिबस्व रत्नधेभि: " [ ऋ० ४.३५.७] ॠभवो देवाः सोमस्य मासन्" इति [ निवि०६] च । ये ॠभवो देवाः ऋतेन सत्येन अवितथेन आत्मीयेन शिल्पकर्मणा चमसम् सोमभक्षणपात्रम् ए- कम ऐरयन्त भैरयन्त । चतुर्धा विभागेन चतुरश्चमसान् अकुर्वन् । “मैतु होतुश्चमसः म ब्रह्मण: प्रोगातुः प्र यजमानस्य" [आप० १२.२३.१३] इत्येवं निर्दिष्टा मध्यतःकारिणां ये प्रधानभूताश्चमसास्तदभिप्रायम् एतत् । ननु मैत्रावरुणादीनामपि षण्णां होत्रकाणां पृथक्पृथक् चमसाः सन्ति । अत एव " होतृचमसमुख्यान् दश चमसान् उन्नयति" इति सूत्रकारा आ- हुः [आप° १२,२१, १४] | मैवम् | मैत्रावरुणादीनां वषट्कर्तृत्वेन हो- तृकार्यापन्नत्वाद् " वषट्कर्तुः प्रथमभक्षः” इति वषट्कारनिमित्तभक्षणसाध- नचमसपात्रम् एकम् एवेति न चतुष्वभङ्गः । तथा च दाशतय्याम् आर्भ- वसुतेषु देवत्वप्राप्तये चमसचतुष्टयनिर्माणं तत्रतत्र आम्नातम् । " एकं च- मसं चतुरः कृणोतन" [ऋ० १.१६१.२] “व्यकृणोत चमसं चतुर्धा " [ ऋ० ४.३५.३] “यदावाख्यच्चमसां चतुरः कृतान्" [ ऋ० १.१६१. ४] इत्यादि । ते महानुभावा: सौधन्वना: सुधन्वन आङ्गिरसस्य पु- त्राः । तद् उक्तं. यास्केन । सुधन्वन आङ्गिरसस्य त्रयः पुत्रा बभूवुः । ऋभुर्विभ्वा वाज इति । प्रथमोत्तमाभ्यां बहुवन्त्रिगमा भवन्ति न मध्य- मेनेति [ नि०११.१६] । ते च मनुष्या एव सन्तो रथनिर्माणादिशिल्प- करणेन देवांस्तोषयित्वा तत्मसादेन देवत्वं प्राप्ताः । श्रूयते हि । 'तक्षन रथं सुवृतं विद्मनापसस्तक्षन् हरी इन्द्रवाहा वृषण्वसू" [ऋ० १. १११. १] इत्यादि । तद् इदम् उच्यते स्वरानशाना इति । रथचमसादिनि- र्माणेन स्वर्गवासोपलक्षितं देवत्वं प्राप्नुवन्तस्तृतीयसदनस्य अधिपतय ऋ- ईयस आदिवर्णलोपश्द्वान्दसः । वसीय इ- ▸ 66 भवः वस्यः वसीयः । 66 ८८