पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४ अथर्वसंहिताभाष्ये त्येव तैत्तिरीयका अधीयते । वसीय: वसुमत्तमं वासयितृतमं वा प्रशस्तं फलम् अभिलक्ष्य नः अस्मान् स्विष्टिम शोभनाम् इष्टिं यजनं नयन्तु अविकलं प्रापयन्तु ॥ [ इति ] तृतीयं सूक्तम् ॥ ८८ श्येनोसि” इति तृचेन उपनीतस्य माणवकस्य आचार्यो दण्डम् अ- भिमन्य दद्यात् । सोपि माणवकः एतं तृचं जपन प्रतिगृह्णीयात् । पनयनम् " [ कौ० ७.६] प्रक्रम्य सूचितम् । “पालाशदण्डं प्रयच्छति ” इति [को॰ ७. ४ ] “अबक्रोविधुरो भूयासम् इति प्रतिगृह्णाति श्येनोसी- ति च” इति [ कौ॰ ७.७] ॥ ० 66 तथा अभयकामः अनेन तृचेन सप्तर्षीन यजते उपतिष्ठते वा । "श्मे- नोसीति प्रतिदिशं सप्तर्षीन अभयकामः” इति हि सूत्रम् [कौ० ७.१०] ॥ ‘श्येनोसि " “वृषासि ' ऋभुरसि" इति तिस्र ऋचः सवनत्रये क्रियमाणेषु बहिष्पवमानमाध्यंदि॑िनार्भवपवमानेषु स्तुतेषु यजमानं ब्रह्मा य- थाक्रमं वाचयेत् । उक्तं वैताने । 'स्तुते बहिष्पवमाने वाचयति श्येनो- सीति वृषासीति माध्यंदिने ऋभुरसीत्यार्भवे” इति [वै०३.७] ॥ 66 66 66 66 तथा श्येनोसि इत्याद्याभिरृग्भिः यथाक्रमं सवनसमाप्तिहोमान् जु- हुयात् । उक्तं वैताने । “ श्येनोसि [ ६. ४] यथा सोमः प्रातः सवने [९. १.११] इति यथासर्वनम् आज्यं जुहोति संस्थितहोमान्” इति [ वै• ३.११] ॥ 66 66 नहि ते अने” इति तृचेन मृताचार्यदहनामौ श्रेयस्कमो ब्रह्मचारी सूत्रोक्तप्रकारेण पुरोडाशं जुहुयात् । सूत्रितं हि । 'नहि ते अग्ने तन्वः “[६. ४९] इति ब्रह्मचार्याचार्यस्यादहन उपसमाधाय त्रिः परिक्रम्य पु- रोडाशं जुहोति" इति [ कौ० ५.१०] ॥ तत्र प्रथमा || श्ये॒नोसि गाय॒त्रच्छ॑न्दा अनु॒ त्वा र॑भे । स्व॒स्ति मा स्वं व॑ह॒ास्य य॒ज्ञस्योहचि॒ स्वाहा॑ ॥ १ ॥ 1S' 'चार्यस्य दहनमुप'. We with Kusila. Darila: आदहनं दहनदेशस्तत्र.