पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९६ अथर्वसंहिताभाष्ये हे तृतीयसवनात्मक यज्ञ जगच्छन्दाः । जगच्छब्दो जगतीपर्याय: । "जागतं तृतीयसवनम्” इति [तै० ब्रा० ३.८.१२.२] श्रुतेः । तृतीयस वनगतस्तुतशस्त्रादिषु जगती छन्दस्का एव मन्त्राः प्रायेण भवन्ति । अतो जगच्छन्दस्वम् । ऋभुरसि । ऋभुर्नाम सौधन्वन आङ्गिरसः क्रियाविशे- घेण लब्धदेवभाव इत्युक्तम् । तत्प्रीतिकरत्वात् तदात्मकोसीत्यर्थः । अनु वा रभे इत्यादि पूर्ववत् ॥ तृतीया ॥ वृषा॑सि त्रि॒ष्टुण्इ॑न्दो॒ अनु॒ त्वा रंभे । स्व॒स्ति मा॒ा सं व॑ह॒स्य य॒ज्ञस्य॒ोहच॒ स्वाहा॑ ॥ ३ ॥ वृषा॑ । अ॒सि । त्रि॒स्तु॒प्ऽव॑न्दाः । अनु॑ । त्वा॒ । आ । रभे । स्व॒स्ति । मा॒ा । सम् । ब॒हु । अ॒स्य । य॒ज्ञस्य॑ उ॒ऽऋच॑ | स्वाहा॑ ॥ ३ ॥ हे माध्यंदिनसवन त्वं वृषा सेचनसमर्थ इन्द्रः स एवासि भवसि तत्प्री- तिकरत्वात् । स खलु माध्यंदिनसवनस्याधिपतिः । श्रूयते हि । “प्रातः सुतम् अपिनो हर्यश्व माध्यंदिनं सवनं केवलं ते” [ ऋ० ४.३५.७] इति । स त्वं त्रिष्टुप्छन्दाः त्रिष्टुप्छन्दस्कमन्त्रसाध्यस्तुतशस्त्रोपेतत्वात्। “त्रैष्टुभं माध्यंदिनं सवनम्” इति हि ब्राह्मणम् [नै॰ ब्रा० ३.४.१२.१] । अन्यद् व्याख्यातम् ॥ चतुर्थी ॥ C न॒हि ते॑ अग्ने॑ त॒न्वः॑ क्रूरमा॒ान॑श॒ मये॑ः । क॒पिब॑भस्ति॒ तेज॑नं॒ स्व॑ ज॒रायु गौरि॑िव ॥ १ ॥ ● न॒हि । ते॒ । अ॒ग्ने॒ । त॒न्वः॒ । क्रूरम् । आ॒नंश॑ । मये॑ । कपिः । ब॒भस्ति॒ । तेज॑नम् । स्व॒म् । ज॒यु॑ । गौ ऽइ॑व ॥ १ ॥ हे अग्ने ते तव तन्वः शरीरस्य ज्वालात्मकस्य क्रूरम् तैदण्यं मर्त्यः म- रणधर्मा पुरुष: नहि आनंश न खलु प्राप्तुं शक्नोति । X अश्नो- तेर्व्यत्ययेन परस्मैपदम् ४ । अपि च कपिः कम् उदकं शरीरगतं . १J गाँ:९. 1S' 'शास्त्रा'.