पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ५. सू° ४९.]२२२ षष्ठं काण्डम् । रसं पिबतीति कपिः । यद्वा कपिवद् इतस्ततश्चमणशीलस्त्वदीयो ज्वा- लासमूह: तेजनम् अन्तर्निःसारं वेणुमिव स्थितं शरीरं बिभस्ति दीफ्य- ति भस्मीकरोति । & भस भर्त्सनदीयोः । जुहोत्यादित्वात् शप: यद्वा । बभस्तिरतिकर्मा इति यारकः [ नि० ५. भक्षयतीत्यर्थः । तत्र दृष्टान्तः स्वम् इत्यादि । गौरिव यथा प्रसूता गौ: स्वम् स्वकीयं जरायु गर्भवेष्टनं प्रसवानन्तरं भूमौ प- तितं भक्षयति तद्वत् पुरुषशरीरं भक्षयतीत्यर्थः ॥ १२]४ । पञ्चमी ॥ मे॒ष इ॑व॒ वै सं च॒ वि चोर्वच्यसे॒ यदु॑त्तर॒द्रावुप॑रश्च॒ खाद॑तः । शीर्ष्णा शिरोप्स॒साप्सो अ॒र्दय॑न्न॑शून् ब॑भस्ति॒ हरि॑तेभि॑रा॒सभः ॥ २ ॥ मेष:ऽइ॑व । वै । सम् । च । वि । च । उरु | अच्य॑से । यत् । उत्तरऽद्रौ । उप॑रः । च । खाद॑तः । शी॒र्ष्णा । शिर॑ः । अप्स॑सा । अप्स॑ । अर्दय॑न् । अंशून् । बस् । हरि॑तेभिः । आसऽभिः ॥ २ ॥ हे अमे त्वं पुरुषशरीरं दाह्यं प्राप्य उरु बहुलं सम उँच्यसे । प्रथमं तावत् तत्तदवयवेन समवैषि संगच्छसे । उच समवाये इति धा- पश्चाद् व्युच्यसे च कृत्स्त्रशरीरं विविधं व्याभोषि । दग्धम् अङ्गं विसृज्य अन्यत्र गच्छसि । तत्र दृष्टान्तः भेष इव वा इति । मेषो यथा भक्षणार्थं तृणभूयिष्ठं देशं प्राप्य भक्ष्येण तृणादिना प्रथमं संयुज्यते [ततो] भक्षणेन तत्रत्यं तृणजातं सर्वं व्याप्नोति तद् इत्यर्थः । यत् यदा उत्तरद्रौ उपर्यवस्थितकाष्ठयुक्ते दाह्यशरीरे अंपर: । चकारात् पूर्वश्च । उ- भावग्नी खादतः भक्षयतः । यद्वा उत्तरद्रौ उत्कृष्टतरद्रुमे महावृक्षभूयिष्ठे वने संचरन अपरः दावाग्नि: शावाग्निश्च उभौ खादतः भक्षयतः । दाह्यं द- हत इत्यर्थः । तदा शीर्ष्या शिरसा ज्वालाग्रेण तत्रत्यस्य शरीरस्य वृ- १DKR चायच्यसे. IIT with ABK SPPJVC-CH. 4380PP JKC P शिरः. 1 The test too in S' बिभस्ति. १३