पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ५. सू० ५०.] २२३ षष्ठं काण्डम् । “ हतं तर्दम्” इति तृचेन मूषकपतङ्गशलभटिट्ठिभकीटहरिणशल्यकगो- धादीनां सस्यभक्षकाणां निवृत्तये लोहमयं सीसं घर्षन् एतं तचं जपन् मूषकादियुक्तं क्षेत्रम अभिक्रामेत् ॥ तथा अनेन तृचेन शर्करा अभिमन्त्र्य मूषकादिस्याने परिकिरेत् ॥ तथा मूषकादिमुखं केशेन बड्डा अनेन तृचेन क्षेत्रमध्ये निखनेत् ॥ तथा संरूपवत्साया गोर्दुग्धे शृतं चरुम् अनेन तृचेन अश्विभ्यां जुहुयात् ॥ तद् उक्तं संहिताविधौ । हतं तर्दम् इत्यय:सीसं घर्षन् उर्वरां परि- कामति तस्मिन्नवकिरति" इत्यादि [ कौ०७.२] ॥ ८८ 66 'वायोः पूतः" इति तृचस्य बृहद्धणे पाठात् शान्त्युदकादौ विनियो- गोनुसंधेयः ॥ तथा सर्वरोग भैषज्ये अनेन तृचेन आज्यहोमं पलाशादिशान्तवृक्षसमि- दाधानं च [ कुर्यात् ] ॥ तथा सोमवमनपानादिनिमित्तव्याधिशममार्थ सोमरसमिश्रिताः पला- शादिसमिध आदध्यात् ॥ सूत्रितं हि । “अम्बयो यन्ति [ १. ४] वायोः पूत: [ ६. ५१ ] इति च शान्ता उत्तरस्य संसोमा : ” इति [ कौ० ४.१] ॥ O ● ९९ तथा अर्थोत्थापन विघ्नशमनकामः अनेन तृचेन “पुनन्तु मा” [६. १९] इत्यत्रोक्तानि क्षीरौदनहवनादिकर्माणि कुर्यात् । “अर्थम् उत्थास्यन्” इति प्रक्रम्य " पुनन्तु मा [ ६. १९] सस्रुषी: [६. २३] हिमवतः म स्रवन्ति [६, २४] वायोः पूतः पवित्रेण” [६. ५१] इत्यादि “अभिवर्षणावसेचनानाम्" इत्येतदन्तं सूत्रम् [ फौ० ५.५ ] अत्र द्रष्टव्यम् ॥ तथा अस्य तृचस्य अपां सूक्तेषु पाठाद् आसांवनादौ विनियोगः । “अवभृषाय वजन्त्यपां सूकैरामुत्य" इति [ कौ॰ ६.९] सूत्रितम् ॥ सोमातिपूतकर्तृकायां सौत्रामण्यां “वायोः पूतः" इति तृचेन दशाप- वित्रेण पाव्यमांनां सुराम अनुमन्त्रयेत । “अग्निचित् सोमातिपूतः सो- मवामी सौत्रामग्याभिषिच्यते इति प्रक्रम्य 'या बभ्रुवः [६.७] इ- 1S' 'कानां 2S' सारूप BS' च सो. We with Kangila. 1S' तस्य. ¡S आप्ल°. "" 66 "