पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ अथर्वसंहिताभाष्ये न्यत्रापि दृश्यते” इति डप्रत्ययः । वष्टि भागुरिरल्लोपम्” इति अवश- ब्दस्य आदिलोपः । पृषोदरादित्वाद् घत्वम् । वघानां पतङ्गादी- नाम् अधिपते तृष्टजम्भा: तीक्ष्णदंष्ट्रा यूयं मे मदीयम् इदं वचनम् आ शृणोत आभिमुख्येन शृणुत । "" ततनतनथनाश्च इति तशब्दस्य तबादेशः छ । ये यूयम् आरण्या: अरण्ये भवा व्यवरा: विविधम अदनशीला: स्थ भवथ । अन्येपि ये के च ग्रामवर्तिनो यूयं व्यद्वराः वि- विधम् अदनशीला भवथ तान् सर्वान् युष्मान् जम्भयामसि जम्भयामः अनेन कर्मणा नाशयामः । लजभि नाशने इति धातुः ॥ " चतुर्थी ॥ वा॒योः पूतः प॒वित्रे॑ण प्रत्यङ् सोमो॑मो॒ अति॑ द्रुतेः । इन्द्र॑स्य॒ यु॒ज्य॒ सखा॑ ॥ १ ॥ वा॒योः । पू॒तः । प॒वित्रे॑ण । प्र॒त्यङ् । सोम॑ः । अति॑ । द्रुतः । इन्द्र॑स्य॒ | यु॒ज्य॑ | सखा॑ ॥ १ ॥ 66 वायोः संबन्धिना पवित्रेण पवनसाधनेन दशापवित्रेण पूतः शोधितः । यहा वायोः सकाशात् पूतः शोधनेन रसवत्तां प्रापितः । सोमरसं प्रस्तु- त्य तैत्तिरीयके समाम्नातम् । तम एभ्यो वायुरेवास्वदयत् । तस्माद् यत् पूयति तत् प्रवाते विषजन्ति । वायुर्हि तस्य पवयिता स्वदयिता" इति [तै० सं० ६. ४.७.२] | ईदृश: सोमः प्रत्यङ् प्रतिमुखम् अञ्चन् अतिंद्रुतः नाभिदेशम् अतिक्रम्य गतः । तदतिक्रमणं हि सम्यग्जरणपर्यन्तम् अन- भिमतम् । तथा च मन्त्रवर्णः । शिवो मे सप्तऋषीनं उपतिष्ठस्व मा मेवाङ् नाभिम् अति गाः” इति [तै ० सं० ३.२.५.३] । स च इन्द्रस्य युज्य: योग्यः सखा मित्रभूतः ॥ 66 पञ्चमी ॥ आपो॑ अ॒स्मान् मा॒तर॑: सूदयन्तु घृ॒तेन॑ नो घृत॒प्वः पुनन्तु । विश्वं॑ हि रिमं प्रमह॑न्ति दे॒वीरुददा॑भ्यः॒ शुचि॒रा पूत ऐमि ॥ २ ॥ १ B प्रत्यक. Soall gurauthorines