पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/११३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ अथर्वसंहिताभाष्यें मनुष्यान्तः पातित्वाद् अचित्त्या अज्ञानेन चेत् हे वरुण तव धर्मा त्वत्संब- न्धीनि धर्माणि कर्माणि युयोपिम व्यामोहयाम: । विपर्यस्तानि कुर्म इ- त्यर्थः । युप विमोहनेछु । तस्मात् अज्ञानजनिताद् एनस: पापात् हेतोः हे देव स्वामिन् वरुण नः अस्मान् मा रीरिष: मा हिं सीः । हुरिष रुष हिंसायाम् । अस्मात् ण्यन्ताद् माङि लुङि च- ङि रूपम् ॥ इति सायणार्यविरचिते अथर्ववेदार्थप्रकाशे षष्ठकाण्डे पञ्चमोनुवाकः ॥ " षष्ठेनुवाके पञ्च सूक्तानि । तत्र “ उत् सूर्य : ” इति प्रथमं सूक्तम् । तत्र आद्येन तूचेन रक्षोग्रहभैषज्यार्थ चित्त्याद्योषधिसहितं पूर्णघटम् अ- भिमन्य व्याधितम् अवसिञ्चेत् || तथा शमीसहितोदकेन वा शमीबिम्बेसहितोदकेन वा शीर्णपर्णसहि तोदकेन वा अनेन तृचेन अभिमन्त्रितेन व्याधितम् अवसिञ्चेत् ॥ सूत्रितं हि । " उत् सूर्य इति शमीबिम्बशीर्णपर्णावधि' इति [ कौ ४.७] ॥ 66 99 ० 66 'द्योश्च मे” इति तृचेन दुष्टगण्डवणभैषज्यार्थ तैलम अभिमन्य ते- न व्रणम् अवभृंज्यात् ॥ तथा एतं तृचं 'जपन्, व्रणदेशं हस्तेन अवमृज्यात् ॥ तथा अनेन तृचेन स्थूणायां व्रणदेशं घर्षयेत् ॥ सूत्रतं हि । “द्योश्च म इत्यभ्यज्य अवमा | स्थूणायां निकषति ” इति [ कौ०४.७] ॥ " तथा द्रव्यादिविनाशे प्राप्ते तन्त्रिवृत्त्यर्थम् अनेन तृचेन द्यावापृथिव्या यजत उपतिष्ठते वा । सूत्रितं हि । द्यौंश्च म इति द्यावापृथिव्यौ वं- रिष्यन्” इति [ कौ० ७.१०] ॥ तथा सवयज्ञेषु "द्योश्च मे” इति तृचेन मन्त्रोक्तानि इन्द्रियाण्यनु- मन्त्रयेत । सूत्रितं हि । बृहत] [६. ५३] पुनमैत्विन्द्रियम् [ ७. 66 ६९ ] इति प्रतिमन्त्रयते” इति [ कौ॰ ७. ७] ॥ D 1 So S'. 5 Kesava remarks: wat na tetat. Where is the gick? 2 So S. 3S' 'सृज्यात् 1S' विलिष्यतीति. We with Kamsin.