पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/११४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठं काण्डम् । १०५ तथा मेधाजननकर्मणि " धोश्च मे " इत्यनया ऋचा क्षीरोदनं पुरो- डाशं रसान वा संपात्य अभिमन्य अञ्जीयात् ॥ [अ० ६. सू° ५२.]२२५ ० 66 तथा अनयैव ऋचा मेधाकाम आदित्यम् उपतिष्ठेत ॥ सूत्रितं हि । “पूर्वस्य मेधाजननानि” इति प्रक्रम्य त्वं नो मेधे [ ६. १०७] धौश्च मे [ ६. ५३ ] इति भक्षयति । आदित्यम् उपतिष्ठते' [ कौ०२. १] [ इति ] ॥ गोदानकर्मणि "पुनः प्राण: " इत्यनया क्षुरं मार्जयित्वा नापिताय प्रयच्छेत् । “पुनः प्राण: [६. ५३.२] पुनर्मैलिन्द्रियम [७. ६९] इति त्रि- निर्मृज्य त्वयि महिमानं सादयामि ” इति कौशिकसूत्रात [ कौ०७. ५] ॥ " उपनयनकर्मणि “सं वर्चसा" इत्यनया उदपात्रम् अभिमन्त्र्य ब्रह्मचा- रिणम अवेक्षयेत् । सूत्रितं हि । 'उदपात्रं समवेक्षयेत् सम् इन्द्रं णः [७. १०२.२] सं वर्चसा [६. ५३.३] इति द्वाभ्याम्" इति [ कौ० ७.६] ॥ तत्र प्रथमा ॥ उत् सूर्यो दि॒व ए॑ति पुरो रक्षांसि निजूवैन । आ॒दि॒त्यः पर्व॑तेभ्यो वि॒श्वह॑ष्टो अदृष्ट॒हा ॥ १ ॥ उत् । सूर्य॑ः । दि॒वः । ए॒ति॒ । पु॒रः । रक्ष॑सि । नि॒ऽजूव॑न् । आ॒दि॒त्यः । पर्व॑तेभ्यः । वि॒श्वऽह॑ष्टः । अ॒दृष्ट॒ऽहा ॥ १ ॥ सि । सूर्य: सर्वस्य प्रेरक आदित्यः पुरः पुरस्तात् पूर्वस्यां दिशि रक्षा- X रक्षो रक्षितव्यम् अस्मात् इति यास्कः [नि°४,१t]g । 3T- स्मदुपद्रवकारिणो रक्षः पिशाचादीन निर्जूर्वन् नितरां हिंसन् । व हिंसायाम् । हेतौ शतृप्रत्ययः । हिंसितुम् इत्यर्थः । दिवः अन्तरिक्षप्रदेशाद् उदेति उद्गच्छति । रात्रौ हि रक्षसां संचारः इदानीं तु उद्यन्नेव सूर्यस्तानि विनाशयतीति भावः । स च आदित्यः विश्वदृष्टः सर्वप्राणिभिः साक्षाक्रियमाणः अदृष्टहा अदृष्टानाम् अस्माभिरहश्यमाना- नामपि रक्षः पिशावादीनां हन्ता पर्वतेभ्यः उदयाचलप्रदेशेभ्यः । उदेतीति १ All our Vaidikas and Mss. जूर्वत्. We with sàyana. 1SoS. Kausika: निर्मृज्य. 2S' समिद्रिण: for समिन्द्र पा १४