पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/११६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू० ५३.] २२६ षष्ठं काण्डम् । १०७ दाने । “किप् च” इति किप्छ । विपश्चितम रोगशमनोपायं वि दुषीं श्रुताम् विश्रुतां प्रसिद्धां कण्वस्य महर्षेः संबन्धिन विश्वभेषजीम् सर्वस्य रोगजातस्य शमनीम् । ¨" ॰ सुमङ्गलभेषजाञ्च" इति ङीप् । ईहशीम एवंगुणविशिष्टां वीरुधम चित्तिः प्रायश्चितिरित्येवं कौशिकेनोक्तां शान्तौषधीं शमीं वा अस्य व्याधितस्य रोगनिवृत्तये आभा- र्षम आहार्षम् आहरामि । "हग्रहोर्भ: " इति भवम् ४ । च आहृत्य प्रयुज्यमाना अस्य रोगिणः अदृष्टान् द्रष्टुम् अशक्यान् शरीर- मध्यवर्तिनो रोगान रक्षः पिशाचादिकृतान् नि शमयत् निशमयतु । सा म उपशमने । अस्मात् ण्यन्तात् लेटि अडागमः । इति इकारलोपः ॥ 66 ' इतच लोप: ० 099 चतुर्थी ॥ द्यौश्च॑ म इ॒दं पृ॑थि॒वी च॒ प्रचे॑तसौ शुक्रो बृहन् दक्षिणया पिपर्तु । अनु॑ स्व॒धा चि॑िकि सोमो॑ अ॒ग्निर्वायुः पातु सवि॒ता भग॑श्च ॥ १ ॥ द्यौः । च॒ । मे॒ । इ॒दम् । पृथि॒वी । च॒ । प्रचे॑तसौ । शुक्रः । बृहन् । दक्षि- णया । पिपर्तु । अनु॑ । स्व॒धा । च॒कम् । सोम॑ः । अ॒ग्निः । वा॒युः । नः । पातु । स॒वि॒- हा । भगः । च ॥ १ ॥ पृथिवी च एते देवते मे मह्यं प्रचेतसौ प्रकृष्टज्ञाने अनुग्रह- बुद्धियुक्ते इदम अभिलषितफलम् । [ प्रयच्छ]ताम् इति शेषः ॥ तथा बृहन् महान् शुक्र: शोचमानो दीप्यमानः सूर्य: दक्षिणया दिशा पिपर्तु पालयतु । यमाधिष्ठिताया दक्षिणस्या दिशो रक्षत्वित्यर्थः । यहा दक्षयति पुरुषं वर्धयतीति दक्षिणा । दक्ष वृद्धौ । द्रुदक्षिभ्याम् इनन् [ उ० २.५०] ।. [ तया] वासोहिरण्यादिरूपया दक्षिणया पिपर्तु पूरय तु । ४पू पालनपूरणयोः । जुहोत्यादित्वात् शपः श्रुः । “अतिपिप- त्यश्च" इति अभ्यासस्य इत्त्वम् । स्वधा पितॄणां संबन्धिनी स्व- 1S' ॰षधं. 66