पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/११७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये अनुजानातु । धाकाराभिमानिनी देवता अनु चिकिताम् ज्ञाने । जुहोत्यादित्वात् शपः क्षुः ४ । & कित यहा स्वधेत्यन्ननाम । यथा अस्माकम् अन्नं भवति तथा सोम: अग्निश्च अनु चिकिताम् । नः अ स्मान् वायुः पातु रक्षतु । निगदसिद्धम् अन्यत् ॥ पञ्चमी ॥ १०४ पुन॑: प्रा॒णः पुन॑रा॒त्मा न ऐतु॒ पुन॒श्चक्षुः पुन॒रसु॑नं॒ ऐतु॑ । वै॒श्वान॒रो नो॒ अद॑ब्धस्तनूपा अ॒न्तरि॑तष्ठाति दुरि॒तानि॒ विश्वा॑ ॥ २ ॥ पुन॑ः । प्रा॒णः । पुन॑ः । आ॒त्मा । नः । आ । ए॒तु । पुन॑ः । चक्षु॑ः । पुन॑ः । असु॑ः । नः॒ । आ । 1 वै॒श्वा॒न॒रः । नः॒ । अद॑ब्धः । त॒नूऽपाः । अन्तः । ति॒ष्ठाति॒ । दुःऽइ॒तानि॑ । विश्व ॥ २ ॥ प्राण: मुखनासिकाभ्यां संचरन् प्राणवायुः जीवावस्थितिहेतुः नः अ- स्मान् पुन: ऐतु आगच्छतु । तथा आत्मा जीव: पुनरागच्छतु । चक्षुः दर्शनसाधनम् इन्द्रियं पुनरागच्छतु । असुः प्राणः पुनरैतु | प्राधान्य- ख्यापनाय पुनरभिधानम् । यद्वा पुनः प्राण इति पूर्व प्राणापानादिवृ- त्तिमंतोऽभिधानम् असुरिति वृत्तिविशेषस्य इति अपौनरुक्त्यम् । व्रणरो- गेण गतप्रायत्वात् प्राणादीनां पुनरागमनं प्रार्थ्यत बोद्धव्यम् ॥ अपि S च वैश्वानरः विश्वनरहितः अदब्धः रोगादिभिः अहिंसितः तनूपाः शरीर- स्य पालकः सन् नः अस्माकम् अन्तः शरीरमध्ये तिष्ठाति तिष्ठतु | ३४ ले- टि आडागम: हैं । विश्वा विश्वानि सर्वाणि दुरितानि रोगनिदान- भूतानि पापानि । विनाशयन् इति शेषः ॥ षधी ॥ सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रम॑न्महि॒ मन॑सा॒ा सं शिवेन॑ ।

त्वष्टा॑ नो॒नो॒ अत्र॒ वरी॑यः कृणोत्वनु॑ नो मार्छु त॒न्वा॒ो यद् विरि॑ष्टम् ॥ ३ सम् । वर्च॑सा । पय॑सा । सम् । त॒नूभि॑िः । अग॑न्महि । मन॑सा । सम् । शि॒वेन॑ । 18' 'मताभिमानम्.