पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/११८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू० ५४.]२२७ षष्ठं काण्डम् । १०९ त्वष्टा॑ । नः॒ । अत्र॑ । वरी॑यः । कृ॒णोतु॒ । अनु॑ । नः॒ । मा॒र्छु । त॒न्वः । यत् । asरि॑िष्टम् ॥ ३ ॥ वर्चसा दीप्या शरीरगतया पयसा देहावस्थितिनिमित्तेन पयोवत् सा- रभूतेन रसेन सम् अगन्महि संगता भवेम | 8" तमो गम्मृच्छि” इति आत्मनेपदम् । छान्दसे लुङि “मन्त्रे घस” इति लेर्लुक् । “म्वो- ." इति मकारस्य नकारः ४ । तनूभिः शरीरावयवैर्हस्तपादादिभिः संगता भवेम । तथा शिवेन शोभनेन मनसा अन्तःकरणेन संगता भ वेम । त्वष्टा देवः नः अस्माकं वरीयः उरुतमम् अतिप्रभूतम् अत्र अ- स्मिन् शरीरे कृणोतु करोतु । ४ उरुशब्दाद् ईयसुनि “प्रियस्थिर - इत्यादिना वर् आदेशः । कृवि हिंसाकरणयोश्च । “धिन्विकृण्व्योर च" इति उप्रत्ययः ४ । नः अस्माकं तन्वः शरीरस्य यद् विरिष्टम रो- गार्तम् अङ्गं तद् अनु मार्छु हस्तेन शोधयतु । X मृष शुद्धौ । अदादित्वात् शपो लुक् । “मृजेर्वृद्धि: " इंति वृद्धिः ॥ " [ इति ] षष्ठेनुवाके प्रथमं सूक्तम् ॥ “ इदं तद् युजे” इति तृचेन अभिचारकर्मणि पलाशमध्यमपर्णेन फ- लीकरणान् जुहुयात् [ कौ० ६.२] ॥ 66 'अस्मै क्षत्रम्" इत्यनया पौर्णमासयागे अग्नीषोमीयं चरुं जुहुयात् । सूत्रितं हि । अस्मै क्षत्रम [ २ ] इति अग्नीषोमा॑विति अग्नीषोमीयस्य इति [कौ० १. ४] ॥ 22 “ये पन्थान: ". इति तृचेन देशान्तरं गच्छतः पुरुषस्य स्वस्त्ययनका म: समिदाज्यपुरोडाशादित्रयोदश द्रव्याणि जुहुयात् ॥ तथा अनेन तृचेन स्वस्ययनार्थ मन्यौदनौ दद्यात् ॥ सूचितं हि । “ये पन्थान इति परीत्योपदधीत प्रयच्छति " इति [ कौ० ७.३] ॥ 66 66 ग्रीष्मो हेमन्तः " इत्यनया ब्रह्मा प्रयाजान् अनुमन्त्रयेत । ग्रीष्मो हेमन्त इति प्रयाजान्" इति हि वैतानं सूत्रम् [वै०१.२] ॥ 1 Hig. L. 93. 9, 5, B. See Kausike, 1.5.