पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/११९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये आभिचारिके कर्मणि व्रतविसर्जनार्थम् "इदावासराय' जुहुयात् समिधश्च आदध्यात् ॥ तत्र प्रथमा ॥ इ॒दं तद् यु॒ज उत्त॑र॒मिन्द्र॑ शु॒म्भा॒म्यष्ट॑ये । अ॒स्य क्ष॒त्रं श्रियं॑ म॒हीं वृष्टिरि॑व वर्धया॒ा तृ॒ण॑म् ॥ १ ॥ इ॒दम् । तत् । यु॒जे । उत्त॑रम् । इन्द्र॑म् । शु॒म्भा॒ामि॒ । अष्ट॑ये । अ॒स्य । क्ष॒त्रम् । श्रिय॑म् । म॒हीम् । वृ॒ष्टिःऽइ॑व । व॒र्धय॒ । तृण॑म् ॥ १ ॥ यत् कर्म अभिचारदोषनिर्हरणक्षमं तद् इदम् उत्तरम् उत्कृष्टतरं कर्म युजे योजयामि । कर्म किं पुनस्तद् इत्याह । यद्वा उत्तरम् इत्येतद् न्द्रविशेषणम् । उत्तरम् उत्कृष्टतरं सर्वेषु देवेषु श्रेष्ठम् इन्द्रं शुम्भामि अलंकरोमि । स्तुत्यादिभिः प्रीणयामीत्यर्थः । शुभ शुम्भ शोभा- ११० 66 " इत्यनया आज्यं किमर्थम् । अष्टयें अभिमतफलप्राप्तये । ४ अशू व्याप्तौ इत्यस्माद् भावे तिन्हु ॥ परोर्धर्चः : प्रत्यक्षकृतः । हे इन्द्र त्वम् अ स्य अभिचर्यमाणस्य पुरुषस्य क्षत्रम् बलं महीम् महतीं श्रियम् पुत्रपौ- त्रधनादिसंपदं वर्धय समृद्धां कुरु । तत्र दृष्टान्तः वृष्टिरिवेति । यथा म- हती वृष्टिः तृणम् सस्यजातं वर्धयति तद्वद् इत्यर्थः । अन्येषामपि दृश्यते” इति सांहितिको दीर्घः ॥ द्वितीया || ४ वर्धयेत्यस्य अ॒स्मै क्ष॒त्रम॑ग्नीषोमाव॒स्मै धरयतं र॒यिम् । इ॒मं रा॒ष्ट्रस्या॑भीव॒र्गे कृ॑णुतं यु॒ज उत्त॑रम् ॥ २ ॥ अ॒स्मै । क्ष॒त्रम् | अमीषोमौ । अस्मै । धारयतम् । र॒यिम् । इ॒मम् । रा॒ष्ट्रस्य॑ । अ॒भि॒ऽव॒र्गे । कृणुतम् । युजे । उत्त॑रम् ॥ २ ॥ हे अग्नीषोमौ । ॐ “ ईदग्नेः सोमवरुणयोः" इति पूर्वपदस्य दी- 1 So S. Kansika VI which treats of anforenfe does not prescribe the application. But Keya on Kans VII & Sa: अथ व्रतविसर्जनमुच्यते । रति व्रतविसर्जनम् आज्यं जुहुयात्.