पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू° ५५.] २२ षष्ठं काण्डम् | १११ र्धः । 66 तम् । “धि- अस्मै यजमानाय क्षत्रम् बलं धारयतम् स्थापयतम् । प्रय- च्छतम् इति यावत् । तथा रयिम् धनम् अस्मै प्रयच्छतम् । तथा इमं यजमानं राष्ट्रस्य जनपदस्य अभीवर्गे आभिमुख्येनावर्जने कृणुतम् कुरु- अभिपूर्वाद् वृजेर्भावे घञ् । ' उपसर्गस्य मञ्यमनुष्ये ब- हुलम्" इति दीर्घः । कृणुतम् इति । कृवि हिंसाकरणयोश्च । न्विकृण्व्योर च” इति उप्रत्ययः तत्संनियोगेन अकारान्तादेशश्च । तस्य “अतो लोपः” इति लोपे स्थानिवद्भावात् लघूपधगुणाभावः ४ । हमपि अस्य यजमानस्य उतफलसिद्धये उत्तरम् उत्कृष्टतरं कर्म युजे यो- जयामि । करोमीत्यर्थः ॥ तृतीया ॥ सन्धुश्वास॑बन्धुश्च॒ यो अ॒स्माँ अ॑भि॒दास॑ति । सर्वे॒ तं र॑न्धयासि मे॒ यज॑मानाय सुन्व॒ते ॥ ३ ॥ सऽव॑न्धुः । च॒ । अस॑बन्धुः । च । यः । अ॒स्मान् । अ॒भि॒ऽदास॑ति । सर्व॑म् | तम् । र॒न्धया॒ासि॒ । मे॒ । यज॑मानाय । सुन्व॒ते ॥ ३ ॥ 66 सबन्धुः समानबन्धुः । समानजन्मगोत्रज इत्यर्थः । असबन्धुः तद्वि- परीतः । अन्य इत्यर्थः । परस्परसमुच्चयार्थी चकारौ । उभयविधो यः शत्रुः अस्मान् अभिदासति उपक्षपयति । हृदसु उपक्षये । अस्मात् ण्यन्तात् लटि 'इन्दस्युभयथा" इति शप आर्धधानुकत्वात् णेरनि- टि” इति णिलोपः ४ । सर्वे तम् उभयविधं शत्रुं सुन्वते सो- माभिषवं कुर्वते मे मह्यं यजमानाय हे इन्द्र त्वं रन्धयासि रन्धय वशी- कुरु ।

  • रध्यतिर्वशगमने इति हि यास्कः [नि० ६. ३२] । “रधि-

जभोरचि ” इति नुम् | लेटि आडागमः । 'शतुरनुम: ०" इति सुन्व- च्छब्दाद् विभक्तिरुदात्ता ॐ ॥ 66 66 चतुर्थी | ये पन्था॑नो बृ॑ह॒वो॑ देव॒यान अन्त॒रा द्यावा॑पृथि॒वी सं॒चर॑न्ति । तेषा॒मज्या॑नं यत॒मो वहा॑ति॒ तस्मै॑ मा देवा॒ परि॑ धत्ते॒ह सर्वे ॥ १ ॥