पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ ११३ [अ० ६. सू० ५६.]२२९ षष्ठं काण्डम् | पि रहिते । इच्छब्दः अवधारणे । वायूपलक्षितसमस्तदुःखकारणरहिते एव वः युष्माकं संबन्धिनि शरणे गृहे स्थाने स्याम भवेम ॥ षष्ठी ॥ इ॒दाव॒त्स॒राय॑ परिवत्स॒राय॑ सं॑वत्स॒राय॑ कृणुता बृ॒हन्त्रम॑ः । तेषां॑ व॒यं सु॑म॒तौ य॒ज्ञिया॑ना॒मप॑ भ॒द्रे सौमन॒से स्या॑म ॥ ३ ॥ इ॒दाव॒त्स॒राय॑ । परि॒ऽव॒त्स॒राय॑ । स॒मऽव॒त्स॒राय॑ । कृ॒णु॒त॒ । बृ॒हत् । नर्मः । तेषा॑म् । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिया॑नाम् । अपि॑ । भ॒द्रे । सू॒ौमनसे । स्याम ॥३॥ प्रभवादिषु पञ्चके पञ्चके क्रमेण एता: संज्ञा भवन्ति । तत्र प्रथमस्य संवत्सर इति संज्ञा । द्वितीयादीनां परिवत्सर: इदावत्सरः अनुवत्सरः ईडन्सरः इति यथाक्रमं संज्ञा भवति । तद् उक्तम् आचार्यैः । चान्द्राणां प्रभवादीनां पञ्चके पञ्चके युगे । संपरीदान्विदित्येतच्छब्दपूर्वास्तु वासराः ॥ इति । तदभिमानिदेवाश्च तैत्तिरीये समाम्नाता: । “अग्निर्वाव संवत्सरः । आदित्यः परिवत्सरः । चन्द्रमा इदावत्सरः । वायुरनुवत्सरः " इति [तै ० ब्रा॰ १.४.१०,१] । हे जनाः तस्मा इदावत्सराय परिवासराय संव- त्सराय च बृहत् प्रभूतं नमः कृणुत कुरुत नमस्कारेण तान् मीणय- "नमः स्वस्ति" इति चतुर्थी छु । तेषाम् इदावत्सरादी- नां यज्ञियानाम् यज्ञार्हाणाम् । & “ यज्ञविंग्भ्यां घखञौ ” इति घ- प्रत्ययः । सुमतौ शोभनायाम अनुग्रहात्मिकायां बुद्धौ वयं स्याम भवेम । अनन्तरं भद्रे शोभने सौमनसे सौमनस्ये शोभनबुद्धिजन्ये फ- लेपि स्याम भवेम । अपिशब्द: संभावनायाम् ॥ 66 . [ इति ] षष्ठेनुवाके द्वितीयं सूक्तम् ॥ " " मा नो देवा : ” इति तृचेन सर्पवृश्चिकादिभयनिवृत्तये गृहक्षेत्रादिषु सिकता अभिमन्त्य परितः परिकिरेत् ॥ तथा अनेन तृणमालां संपात्य गृहनगरादिद्वारे बनीयात् ॥ तथा अनेन तृचेन गोमयम अभिमन्य गृहे विसर्जनं द्वारि निख- ननम् अग्नौ होभं वा कुर्यात् ॥