पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू° ५६.]२२९ षष्ठं काण्डम् । च" इति वधादेशः । तस्य च अदन्तत्वाद् अतो लोपे स्थानिवद्भावाद् “अतो हलादेर्लघोः” इति वृद्ध्यभावः । तोकम् इति अपत्यनाम । पुत्रपौत्राद्यपत्यसहितान् । कीदृशान् । सतोकान्. । & “वोपसर्ज- नस्य इति सहशब्दस्य सभावः । सहपूरुषान् भृन्यादिपुरुषसहि तान् ॥ अपि च संयतम् संश्लिष्टम् अहेरास्यं न विस्फुरत् । दशनार्थे विष्फारितं विश्लिष्टं न भवतु । स्फुर संचरणे इत्यस्माद् विपूर्वात् लेटि अडागमः । तथा व्यात्तम् विवृतं तद् आस्यं न सं य- मत् संयतं संश्लिष्टं न भवतु । मन्त्रसामर्थ्येन प्रतिबद्धं सत् वर्तताम् इ- त्यर्थः । व्यातम् इति । व्याङ्पूर्वाद् दाञो निष्ठायाम् “अच उ- पसर्गात् तः ” इति तकारः । [देवजनेभ्य: ] ये सर्पादिविषनिर्हर- समर्था देवजनास्तेभ्यो नमोस्तु ॥ द्वितीया ॥ "" नमो॑स्व॒स॒ताय॒ नम॒स्तिर॑श्चिराजये । स्व॒जाय॑ ब॒भ्रवे॒ नमो॑मो॒ नमो॑ देवज॒नेभ्यः॑ ॥ २ ॥ नम॑ः । अ॒स्तु । अ॒सि॒ताय॑ । नम॑: L तिर॑श्चऽराजये । स्व॒जाय॑ । ब॒भ्रवे॑ । नम॑ः । नम॑ः । दे॒व॒ऽज॒नेभ्य॑ ॥ २ ॥ । ११५ असिताय कृष्णवर्णाय एतन्नाम्ने सर्वाधिपतये नमोस्तु ॥ तथा तिर - श्विराजये तिरश्वीनास्तिर्यय् अवस्थिता, राजयः वलयो यस्य स तिरश्चिरा- जि: । एतत्संज्ञाय सर्पमुख्याय नमोस्तु ॥ बभ्रुवे बभ्रुवर्णाय स्वजाय स्व- यमेव जायते कारणांन्तरनैरपेक्ष्येण उत्पद्यते इति स्वजः | तस्मै एतन्नाम्ने सर्पाय नमोस्तु ॥ एतेषां सर्पाणां नियन्तृभ्यो देवजनेभ्यश्च नमोस्तु । अ- सितादिशब्दानां सर्पविशेषनामत्वं तैत्तिरीयके 'समीची नामासि " [तै ● सं० ५. ५.१०.१] इत्यादिसर्पाहुतिमन्त्रेषु प्रसिद्धं द्रष्टव्यम् || तृतीया || ९ सं ते॑ हन्मि दुता दू॒तः समु॑ ते॒ हन्वा॒ हनु॑ । संजय जि॒ह्वां सम्वि॒ास्त्राह॑ आ॒स्यम् ॥ ३ ॥