पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११६ अथर्वसंहिताभाष्ये सम । ते । ह॒न्मि॒ । दृता । दू॒तः । सम् । उ॑ इति॑ । ते॒ । ह॑न्वा॑ । हनू इति॑ । • सम् । ते॒ । जि॒ह्वया॑ । जि॒ह्वाम् । सम् । ॐ इति॑ । आ॒स्त्रा । अ॒हे । आ॒- स्यम् ॥ ३॥ 1 हे अहे सर्प ते तव दता उपरिपरिवर्तिदन्तेन दतः अध:पकिस्पान् दन्तान् सं हन्मि संहतान् संश्लिष्टान् करोमि ॥ तथा ते तव हन्वा हनू सं हन्मि । हनुद्वयमपि परस्परसंश्लिष्टं करोमीत्यर्थः ॥ ते त्वदीयया जिह्व- या जिह्वामपि संहतां करोमि । सर्पस्य हि द्वे जिह्वे । ते अपि परस्प- रमतिबद्धे करोमीत्यर्थः ॥ तथा आस्ना आस्येन आस्यम् त्वदीयं मुखं संहतं करोमि । आस्यस्य उत्तराधरभागावपि करोमीत्यर्थः । यहा सर्वाधिपानां बहुशिरस्कात्वात् तदास्यानि अन्योन्यप्रतिबद्धानि करोमी- त्यर्थः । "पद्दन्” इत्यादिना दन्तशब्दस्य दद्भावः । आस्यश- ब्दस्य च आसन् आदेश: । उशब्दः पूरणः ॥ चतुर्थी ॥ इ॒दमिद् वा उ॑ भेष॒जमि॒िदं रु॒द्रस्य॑ भेष॒जम् । येनेषु॒मेक॑तेजना॑ श॒तश॑ल्या॑प॒नव॑त् ॥ १ ॥ । इ॒दम् । इत् । वै । ऊ॒ इति॑ । भेष॒जम् । इ॒दम् । रु॒द्रस्य॑ भेष॒जम् । येन॑ ।. इषु॑म् । एक॑ऽतेजनाम् । शतऽशेल्याम् | अपऽब्रव॑त् ॥ १॥ इदम् इद् वै इदमेव खलु करिष्यमाणं भेषजम् अस्य व्रणरोगस्य नि- वर्तकम औषधम् । इदमेव रुद्रस्य भेषजम् । रोदयति सर्वम् अन्तकाले इति रुद्रः | तस्य देवस्य संबन्धि औषधम् । ४ रोदेर्णिलुक् च [उ° २,२२] इति रक् प्रत्ययः ४ । किं पुनरिदंतया निर्दिष्टम् इति तद् आह येनेति । येन भेषजेन महादेवस्त्रिपुरसंड तिसमये एकतेजनाम एकस्तेजनो वेणुकाण्डो यस्याः सा तथोक्ता । शतशल्याम् शतसंख्याकानि शल्यानि अयोमयानि तीक्ष्णानि प्रोतानि यस्याम् ईदृशीम इषुम् उंप- १ P ह॒न्वा॑. We with PIC. 1S' 'जना. 2S' प्रौना'.