पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू° ५७.] २३० षष्ठं काण्डम् । ११७ बुंवत् । वेध्यसमीपं प्राप्य प्रायु । तद् इदम् इति पूर्वत्र संबन्धः || पञ्चमी ॥ जालाषेणाभि पिंञ्चत जालाषेणोपं सिञ्चतं । जा॑ल॒षमु॒ग्रं मे॑ष॒जं तेन॑ नो मृड जी॒वसे॑ ॥ २ ॥ जालाषेण॑ । अभि । सिञ्चत । जालाषेण॑ । उप॑ । सिञ्चतं जा॒षम् | उ॒ग्रम् | भेष॒जम् । तेन॑ । नः॒ । मृह॒ । जी॒वस॑ ॥ २ ॥ जलाषम् इति उदकनामसु पठितम् । अत्र च विनियोगानुसारेण गोमूत्रफेनलक्षणम् । हे परिचारका : तेन जंलाषेण अभि षिञ्चत व्रणम् अभितः प्रक्षालयत । ‘शे ऋषिच क्षरणे । “तुदादिभ्य: शः" । मुचादीनाम्” इति नुम् । “उपसर्गात् सुनोति” इति षत्वम् ७ ॥ था तेनैव जंलाषेण उप सिञ्चत व्रणसमीपं प्रक्षालयत । तद्धि जलाषम उग्रम तीक्ष्णं भेषजम् रोगनिवर्तकम् | हे रुद्र तेन जलाषेण नः अस्मान मृळे सुखय जीवसे जीवनार्थम् । जलाषस्य रुद्रसंबन्धिभेषजत्वं दाशत- य्यामपि आम्नातम् । “गाथपतिं मेधपतिं रुद्रं जलाषभेषजम्" इति [ ऋ० १. ४३. ४ ] ॥ 66 षष्ठी ॥ शं च॑ नो॒ मय॑श्च नो॒ मा च॑ नः किं च॒नाम॑मत् । स॒मा रप॒ो विश्वं॑ नो अस्तु भेष॒जं सर्वं नो अस्तु भेषजम् ॥ ३ ॥ शम् । च । न 1 मय॑ः । च॒ । नः॒ । म । च॒ । नः । किम चन | आममत् । क्ष॒मा । रप॑ । विश्व॑म् । नः॒ । अ॒स्तु॒ । भेष॒जम् । सर्व॑म् । नः॒ । अ॒स्तु । - षजम् ॥ ६ ॥ हे देव नः अस्माकम् शं च रोगस्य शमनं च भवतु । रोगजनितं दुःखं निवर्तताम् इत्यर्थः । मयश्च । मय इति सुखनाम | सुखं च नः अस्माकं भवतु । अपि च नः अस्माकं संबन्धि किं चन किमपि प्र १ K सिञ्चतम्. २.So all our Vaidikas and MSS.