पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ अथर्वसंहिताभाष्ये जापश्वादिकं मा आममत् रोगग्रस्तं मा भूत | अम रोगे । अ- स्मात् ण्यन्तात् लुङि चङि रूपम् । रप इति पापनाम । रपो रिप्रम् इति पापनामनी भवतः इति हि यास्क: [ नि०४.२१] । “सुपां सु- लुक्" इति षष्ठ्या लुक् । रपः रपसो रोगनिदानभूतस्य पाप- स्य क्षमा शान्तिः उपशमो भवतु । दिभ्य: ०” इति भावे अङ् । अस्माकं भेषजम् औषधम् अस्तु । एतदेव आदरार्थ पुनरुच्यते सर्वे न इति । सर्वम् कृत्स्त्रं कर्म नः अस्माकं भेषजम् अस्तु ॥ [ इति ] षष्ठेनुवाके तृतीयं सूक्तम् ॥ 66 यशसं मेन्द्रः” इति तृचेन यशस्कामः इन्द्रं यजते उपतिष्ठते वा 'यशसं मेन्द्र इति यशस्काम : ” इति हि सूत्रम [ कौ० ७.१०] ॥ 66 " तथा उत्सर्जनकर्मणि अनेन तृचेन आज्यं हुवा रसेषु संपातान् आ- नयेत् । उत्सर्जनं मक्रम्य सूत्रितम् । “ यशसं मेन्द्रः [ ६. ५६] गिराव- रगराटेषु [ ६. ६९]” इत्यादि " अग्नौ हुत्वा रसेषु संपातान् आनीय इति [को० १४.३.] ॥ 66 'अनडुञ्यस्त्वं प्रथमम्' इति तृचस्य बृहद्गणे पाठात शान्त्युदकादौ विनियोगः ॥ " तथा अर्थोत्थापनविघ्नशमनकर्मणि 'वायोः पूतः ” [ ६. ५१] इति तृचोक्तानि क्षीरौदनहवनादीनि कर्माणि कुर्यात् ।' सूत्रतं हि । “शं च “नो मयश्च नः [६. ५७.३] अनहुद्भ्यस्त्वं प्रथमम् [६. ५९] मह्यम् आप: “[ ६. ६१] वैश्वानरो रश्मिभिः [ ६. ६२] इत्यभिवर्षणावसेचनानाम् ” इति [ कौ० ५. ५ ] ॥ तथा स्वस्ययनकर्मणि अनेन तृचेन आज्यसमित्पुरोडाशादीनि शप्कु- त्यन्तानि त्रयोदश द्रव्याणि जुहुयात् । सूत्रितं हि । “ पातं नः [६• “ ३] इति पञ्च अनडुद्भ्यः [ ६, ५९] यमो मृत्युः [ ६. ९३] विश्वजित् [६. “१०७] शकधूमम[ ६. १२७] भवाशर्वौ [११.२] इत्युपदधीत" इति [ कौ॰७.१] ॥ X क्षमूष सहने । “षिद्भिदा- विश्वम् समस्तं स्थावरजङ्गमात्मकं नः "" ""