पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू० ५६.]२३१ षष्ठं काण्डम् । तत्र प्रथमा ॥ य॒शस॑ मेन्द्रो म॒घवा॑न् कृणोतु य॒शसं द्यावा॑पृथि॒वी उभे इमे । यशस मा दे॒वः स॑वि॒ता कृ॑णोतु मियो दातुर्दक्षिणाया इ॒ह स्या॑म् ॥ १ ॥ य॒शस॑म् । मा॒ । इन्द्र॑ः । म॒घवा॑न् । कृ॒णोतु॒ । य॒शस॑म् । यावा॑पृथि॒वी इ- ति॑ । उ॒भे इति॑ । इ॒मे इति॑ । य॒शस॑म् । मा॒ा । दे॒वः । स॒वि॒ता । कृणोतु । प्रि॒यः । तुः । दक्षिणायाः । इ॒ह । स्याम् ॥ १॥ 66 इमे मघवान् । मघम् इति धननाम | तडान् इन्द्रः मा मां यशसम् यशस्विनं कीर्तियुक्तं कृणोतु करोतु । ॐ यशःशब्दाद् मत्वर्थीयस्य 'लुगकारेकाररेफाञ्च वक्तव्याः” इति लुक् । तद्धितान्तत्वेन प्रातिपदिकसं- ज्ञायाम फिषोन्त उदात्त: [ फि० १.१] इति अन्तोदात्तत्वम् । परिदृश्यमाने उभे द्यावापृथिवी द्यावापृथिव्यौ [ मा] मां यशसम् यश- स्विनं कृणुताम् । देव: दानादिगुणयुक्तः सविता सर्वमेरको देवः मा मां यशसम यशस्विनं कृणोतु करोतु । एवम् उदीरितरीत्या यशस्वी भूत्वा दक्षिणाया: वासोहिरण्यादिरूपाया इह अस्मिन् ग्रामनगरादौ धां- नुः दातुः प्रिय: स्याम् भवेयम् ॥ ११९ द्वितीया ॥ यथेन्द्र॒द्रो॒ द्यावा॑पृथि॒व्योर्यश॑स्व॒ान् यथाप॒ ओष॑धीषु॒ यश॑स्वतीः । ए॒वा विश्वे॑षु दे॒वेषु॑ व॒यं सर्वेषु य॒शस॑ः स्याम् ॥ २॥ यथा॑ । इन्द्र॑ः । द्यावा॑पृथि॒व्यो । यश॑स्वान् । यथा॑ । आपः॑ । ओष॑धीषु । यश॑स्वतीः : । ए॒व । विश्वे॑षु । दे॒वेषु॑ । व॒यम् । सर्वे॑षु । य॒शस॑ः । स्याम् ॥ २ ॥ यथा येन प्रकारेण द्यावापृथिव्योः द्यौश्च पृथिवी च द्यावापृथि- “दिवो द्यावा” इति द्यावा आदेश:, । "देवताहन्द्वे च " उभयपदप्रकृतिस्वरत्नम् । “उदात्तयणो हलपूर्वात्" इति विभक्तेरुदा- व्यौ । इति