पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अणसंहिताभाष्ये

इमानं प्रकृय वाजसनेयकम् । 'स त्रेधात्मानं व्यकुरुत अनिं तृतीयं वायु तृतीयम् आदित्यं तृतीयम्' इति [बृ° आ° १ २ ३]। एतेन इतरदेवे भ्यः प्रशस्यम् अस्योक्तं भवति । ईदृशो यः सविता सिन्धौ स्यन्दनशीले समुद्रे अन्तः मध्ये । उद्यन् दृश्यत इति शेषः । तं युवानम् नियत रुणं नैशस्य तमसो यावयितारं पृथक्कर्तारं वा अद्रोघवाचम् अहिंसकवा- क्ययुक्तम् । शोभनवाचम् इत्यर्थः । सुशेवम् सुसुखम् । स्तुहीत्यन्वयः ।

तृतीया ।

स घां न देवः सविता सांविषमृतनि भूरि ।
उभे सुंटुती सुगार्तवे ॥ ३ ॥

सः । घ । नः । देवः। सविता । साविषत् । अमृतनि । भूरिं ।
उभे इतेि । सुस्तुती इति सुऽस्तुती । सुऽगातंवे ॥ ३ ॥


स च स एव देवः सविता ‘ नः अस्माकम् अमृतानि अमृतत्वसाध- नानि भूरि भूरीणि बहूनि हविःप्रदानादीनि कर्माणि साविषत् प्रेरयतु देवान् प्रापयतु । यद्वा अमृतानि अमरणहेतुभूतानि बलानि भूरि ब हुलं नः अस्मभ्यं साविषत् प्रेरयतु । ऽ ऽ प्रेरणे । अस्मात् लेटि अडागमः । ‘‘सिब्बहुलं णिद् वक्तव्यः” इति वचनाद् वृघ्यावादेशौ । घश ब्दस्य ‘‘ऋचि तुनुघमक्षुतङत्रोरुष्याणाम्” इति सांहितिको दीर्घः ’ । कि- मर्य इत्यत आह उभे इति । उभयविधे सुष्टुती शोभनस्तुतिसाधने बृहद्रथंतरे सामनी सुगातवे सुडु गातुम् । यद्वा उभे सुपुती स्तुतशत्रा त्मिके शोभने स्तुती सुगातवे सुटु प्रयोक्तुम् । ॐ गायतेस्तुमर्थे तवे प्रत्ययः ॐ


॥ चतुर्थी ।

इन्द्राय सोमंमृत्विजः सुनता च धावत ।
स्तोतुय वचः शृणवद्धवं च मे ॥ १ ॥

इन्द्राय। सोमंम् । ऋत्विजः। सुनोत । आ। च । धावत ।
स्तोतुः। यः । वचः । शृणवत् । हवं । च । मे ॥ १ ॥

.