पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ अथर्वसंहिताभाष्ये 1 धाता । दाधार | पृथि॒वीम् | धा॒ता । द्याम् । उ॒त । सूर्य॑म् । धा॒ता । अ॒स्यै । अ॒नुवै । पति॑म् । दधा॑तु । प्र॒ति॒ऽका॒म्य॒म् ॥ ३ ॥ धाता सर्वस्य जगतो धारयिता विधाता देवः पृथिवीम् भूमिं दाधा- र धृतवान् । स्वस्थाने स्थापितवान् इत्यर्थः । तुजादित्वाद् अ- भ्यासदीर्घः ॥ तथा स एव धाता धाम धुलोकम् | उतशब्दः चार्थे । सूर्यम् सर्वप्रेरकम् आदित्यं च स्वकीये स्थाने धारितवान् ॥ ए- वं सर्वस्य जगतो नियन्तृत्वात् धातैव अस्या अनुवै पतिकामायै कन्या- यै प्रतिकाम्यम् आभिमुख्येन कामयितव्यं पतिम् भर्तारं दधातु विदधातु करोतु प्रयच्छतु वा । डुधाञ् दानधारणयोः ४ ॥ चतुर्थी ॥ मह्यमापो॒ मधु॑म॒देर॑यन्ां मह्यं सूरो अभञ्ज्योति॑षो॒कम् । मह्यं दे॒वा उ॒त विश्वे॑ तपो॒जा मह्य॑ दे॒वः स॑वि॒ता व्यथो॑ धात् ॥ १ ॥ मह्य॑म् । आप॑ः । मधु॑ऽमत् । आ । ई॒रय॒न्ता॒म् । मह्य॑म् । सूर॑ अ॒भरत् । ज्योति॑षे । कम् । मह्य॑म् । दे॒वाः । उ॒त । विश्वे॑ । त॒पः॑ऽजा: । महा॑म् । दे॒वः । स॒वि॒ता । व्य- न॑ । धा॒ात् ॥ १ ॥ आप: उदकानि तदभिमानिदेवताः मधुमत् माधुर्योपेतम् आत्मीयं रसं मह्यं मदर्थे एरयन्ताम् आगमयन्तु ॥ तथा सूर: सर्वस्य प्रेरक आदित्यः मह्यं मदर्थ कम सुखकरम् आत्मीयं तेजः ज्योतिषे विषयप्रकाशनाय अभरत् अहरत् । उत्पादितवान् इत्यर्थः यद्वा । “क्रियाग्रहणं कर्तव्यम्" इति कर्मण: संप्रदानत्वात् ज्योतिषे इति] कर्मणि चतुर्थी ४ । ज्यो- ति: आत्मीयं प्रकाशम् अहरत् । प्रापयतीत्यर्थः । अस्मिन् पक्षे कम इति ४ तद् उक्तं यास्केन । पदपूरणास्ते मिताक्षरेष्वनर्थ- [ नि० १.९]४ ॥ उत अपि च तपोजा: ब्रह्म- णस्तपसो जाता: विश्वे सर्वे देवाः मह्यम् । इष्टफलं प्रयच्छन्तु इति 1 S' तदभिमानो देवा. पदपूरणः । का: कमीमिद्विति