पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठं काण्डम् । 66 शेषः । तपसो जायन्ते इति तपोजाः । 'जनसन खनक्रमगमो सविता सर्वस्य विट्” । “विड्डनोरनुनासिकस्यात्" इति आत्त्वम् हु । प्रेरको देवः व्यचः व्यापनम् इष्टफलप्रापणं मह्यं धात् दधातु विदधातु करोतु प्रयच्छतु वा । ॐ दधातेश्छान्दसे लुङि “गातिस्था” इति सिचो लुक् ॥ [अ० ६. सू० ६१.]२३४ ८८ १२५ पञ्चमी ॥ अ॒हं वि॑वेच पृथि॒वीमु॒त द्याम॒हमृतूंरंजनयं स॒प्त साकम् । अहं स॒त्यम॑नृ॑तं॒ यद् वदा॑म्यहं देवीं परि॒ वाच॑ विशेश्च ॥ २ ॥ अ॒हम् । वि॒वेच॒ । पृथि॒वीम् । उ॒त । द्याम् । अ॒हम् । ऋतून । अजनयम् । सप्त | साकम् । अ॒हम् । स॒त्यम् । अनु॑तम् । यत् । वदा॑मि । अहम् । दैवी॑म् । परि॑ । वा- च॑म् । विश॑ः । च॒ ॥ २ ॥ मन्त्रद्रष्टा स्वात्मनः सर्वगतब्रह्मात्मभावम् अनुसंदधानः सर्वकर्तृत्वम् आविष्करोति । पृथिवीं द्यां च अहं विवेच । परस्परविविक्ते असंकी- र्णरूपे कृतवान् अस्मि ॥ तथा अहमेव सप्तसंख्याकान् । वसन्ताद्याः षट् संसर्पाहस्पतिसंज्ञकाधिमासाख्यः सप्तमः । एतान् सप्तसंख्याकान् ऋ- तून साकं सह परस्परसंहतान् अजनयम् उत्पादितवान् अस्मि ॥ सत्यम् यथार्थम् । अनृतम् अयथार्थम् | सत्यानृतभेदेन यत् लोके प्रसिद्धं वा- क्यजातं तद् अहमेव वदामि उच्चारयामि ॥ तथा दैवीम देवसंबन्धितीं वाचम् अहमेव परि विशंम् परिप्राप्तवान् अस्मि ॥ षष्ठी ॥ अ॒हं ज॑जान पृथि॒वीमु॒त द्याम॒मृत॑र॑जनयं॑ स॒प्त सिन्ध॑न् । अ॒हं स॒त्यमनृ॑तं॒ यद् वदा॑मि॒ यो अ॑ग्नीषोमावजु॑षे॒ सखा॑या ॥ ३ ॥ अ॒हम् । ज॒जान | पृथि॒वीम् | उ॒त । द्याम् । अ॒हम् । ऋ॒तून् । अजनयम् । स॒प्त । सिन्ध॑न् । १P PJ अजनयन्. We with Cr.