पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ अथर्वसंहिताभाष्ये अ॒हम् । स॒त्यम् । अनृ॑तम् । यत् । वदा॑मि । यः । अ॒ग्नी॑षो॒ोमौ । अजु॑षे । सखा॑या ॥ ३ ॥ उ 66 " पूर्ववद् योजना | इयांस्तु विशेष: । जजान उत्पादितवान् अस्मि । सिन्धून् सिन्धवः स्यन्दनशीला गङ्गाद्याः सप्त नद्यः सप्त समुद्रा वा । तानपि अहम् उत्पादितवान् अस्मि । स्वात्मनस्ताहक्सामर्थ्यप्राप्तिम् पपादयति यो अनीषोमाविति । अग्नीषोमात्मकं हीदं सर्वं जगत् । श्रू- यते हि । “एतावद् वा इदम् अन्नं चैवान्नादव सोम एवान्नम् अग्नि- रन्नादः इति [बृ॰आ°१.२.१३] | एवं भोक्तभोग्यात्मकस्य अखिल जगतः कारणभूतौ अग्नीषोमौ योहं ब्रह्मात्मभावेन सखाया सखायौ स- मानख्यानौ जगन्निर्माणे सहायभूतौ अजुषे सेवितवान् अस्मि । तादृशस्य मम द्यावापृथिव्यादिसर्जनम् उपपन्नम् इत्यर्थः । X अजुषे इति । जुषी प्रीतिसेवनयोः । अस्मात् लङि उत्तमैकवचने रूपम् । सखाया । 'सुपां सुलुक्" इति विभक्तेराकारः ॥ इति सायणार्यविरचिते अथर्ववेदार्थप्रकाशे षष्ठकाण्डे षष्ठोनुवाकः । " सप्तमेनुवाके पञ्च सूक्तानि । तत्र 'वैश्वानरो रश्मिभिः " इति प्रथ- मं सूक्तम् । तत्र आद्यस्य तृचस्य बृहद्धणे पाठात् शान्त्युदकाभिमन्त्रणे विनियोगः ॥ तथा अर्थोत्थापनविघ्नशमनकर्मणि अनेन तृचेन क्षीरोदनहवनादीनि कर्माणि कुर्यात् । सूचितं हि । “ मह्यम् आपः [ ६. ६२ ] वैश्वानरो र- श्मिभिः [ ६. ६२ ] इत्यभिवर्षणावसेचनानाम्” इति [ कौ० ५ . ५ ] # तथा अस्य तृचस्य पवित्रगणे पाठात् संवयज्ञेषु प्रोक्षणे विनियोगः । पवित्रैः संप्रोक्षति" इति [को० ४.२] सूत्रात् ॥ अवकीर्णिप्रायश्चित्तार्थ तमेव ब्रह्मचारिणं दर्भरज्वा कण्ठे बड्डा “यत् ते देवी" इत्यनेन तृचेन बीहीन यवान् तिलान् वा जुहुयात् || तथा अनेन तृचेन उदपात्रं संपात्य दर्भरज्या अवकीर्णिनं संमोक्ष्य दर्भरज्जुं विसृजेत् ॥ 66 66