पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ७. सू० ६२.]२३५ षष्ठं काण्डम् । १२७ ० ८८ ब्रह्मचारिणं प्रक्रम्य सूत्रितम् । “यत् ते देवीत्यावपत्येवं संपातवतोद- पात्रेणावसिच्य मन्त्रोक्तं शान्त्युदकेन संप्रोक्ष्य” इति [ कौ० ५.१०] 1. तथा अग्निचयने “यत् ते देवी” इति नैर्ऋतेष्टकोपधानानन्तरं रुक्म- पाशसहितां प्रास्ताम् आसन्दीम अनुमन्त्रयेत । तद् उक्तं वैताने । “यत् ते देवीत्यासन्दीं रुक्मपाशां नैर्ऋत्यां प्रास्ताम्” इति [वै० ५.१.] ॥ तथा "नमोस्तु ते” इति नैर्ऋतीम इष्टकाम् उपधीयमानाम् अनुम- न्त्रयते । “नमोस्तु ते निर्ऋते” इति हि वैतानम् [वै० ५.१] ॥ 66 तत्रैव अनिचयने “सं समित्" इत्यनया आनुष्टुभीरिष्टका उपधीयमा- ना ब्रह्मा अनुमन्त्रयते ॥ तत्र प्रथमा ॥ वै॒श्वान॒रो र॒श्मिभि॑र्नः पुनातु वार्त: प्रा॒ाणेने॑षि॒रो नभोभिः । द्यावा॑पृथिवी पर्यसा पय॑स्वती ऋ॒ताव॑री यज्ञिये नः पुनीताम् ॥ १ ॥ वै॒श्वा॒न॒रः । र॒श्मिऽभिः॑ः । नः॒ । पुना॒तु । वात॑ । प्रा॒णेन॑ इ॒ष॒रः । नभ॑ ऽभिः । द्यावा॑पृथि॒वी इति॑ । पय॑सा । पय॑स्वती॒ इति॑ । ऋ॒तव॑री इत्यृ॒तऽव॑री । य॒- ज्ञिये॒ इति॑ । नः॒ । पुनी॒ताम् ॥ १ ॥ वैश्वानरः विश्वनरसंबन्धी सर्वप्राणिषु जाठरात्मना वर्तमानोग्नि: रश्मि - भिः स्वकीयैः किरणैः नः अस्मान् पुनातु शोधंयतु 66 यद्वा 'वैश्वानरो . यतते सूर्येण” [ऋ॰ १.९७.१] इति लिङ्गात् सूर्योपि वैश्वानर इत्युच्यते । सोपि स्वरश्मिभिः अस्मान् पुनावित्यर्थः ॥ तथा वातः वायु: देहमध्ये संचरन् प्राणेन प्राणनव्यापारेण श्वासोच्छ्रासादिरूपेण अस्मान पुनातु ॥ तथा इषिर: गमनशील: अन्तरिक्षे संचरन् स एव नभोभिः नभ:प्रदे- शैरन्तरिक्षप्रदेशैः : अस्मान् शोधयतु । इषिर इति । इष गतौ इ- त्यस्माद् औणादिकः किरच् प्रत्ययःX । द्यावापृथिवी द्यौश्च पृथिवी च द्यावापृथिव्यौ । "दिवो द्यावा इति द्यावा आदेश: । “वा १ ABBDKKR SPJ VC. पृथिवी. We with P. "पृथि॒वी clhanged to पृथवी. We with P. 1S' omits 'मू. 'S' अनश्चक्ष. २ PJ K 'पृथिवी॒ इति॑. C:-