पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ अथर्वसंहिताभाष्ये " छन्दसि ” इति पूर्वसवर्णदीर्घः । “देवताद्वन्द्वे च” इति उभयपदप्रकृति- स्वरत्वम् । “॰ अपृथिवीरुद्रपूषमन्धिषु” इति पर्युदस्तत्वाद् “नोत्तरपदेनुदा- तादौ ० " इति निषेधाभावः ४ । कीदृश्यौ द्यावापृथिव्यौ । पयसा 66 सारभूतेन रसेन पयस्वती पयस्वत्यौ सारवत्यौ । ऋतावरी ऋतम् इत्यु - दकस्य सत्यस्य यज्ञस्य वा नामधेयम् तद्वत्यौ । "" "छन्दसीवनिपौ' इति मत्वर्थीयो वनिप् “वनो र च" इति ङीब्रेफौ । पूर्ववत् पूर्वसवर्ण- दीर्घः । यज्ञिये यज्ञार्हे यज्ञनिष्पादनसमर्थे । *“यज्ञर्विग्भ्यां घवञौ " इति घप्रत्ययः ॐ ॥ एवंगुणविशिष्टे द्यावापृथिव्यौ नः अ- स्मान पुनीताम् शोधयताम् । पवने । त्र्यादित्वात् श्श्रामत्य- पूञ् यः । “ई हल्यघोः” इति ईत्वम् ॥ द्वितीया ॥ वैश्वा॒न॒ सू॒नृतामा र॑भध्वं यस्या॒ा आशा॑स्त॒न्वो वी॒तपृ॑ष्ठाः । तया॑ गृ॒णन्त॑ सध॒मादे॑षु॒ व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥ २॥ वै॒श्वा॒न॒रीम् । सू॒नृता॑म् ।आ। र॒भ॒ध्व॒म् । यस्या॑ः । आशा॑ः । त॒न्वः । वी॒तऽपृ॑ष्ठाः । तया॑ । गृ॒णन्त॑ । स॒ध॒ऽमादे॑षु । व॒यम् । स्या॒ाम॒ । पत॑यः । र॒यी॒णाम् ॥ २॥ वैश्वानरीम् वैश्वानराग्निसंबन्धिनीं सूनृताम् प्रियसत्यात्मिकां वाचं स्तु- तिरूपाम् हे जनाः आ रभध्वम् उपक्रमध्वम | वीतपृष्ठाः विस्तीर्णोपरि- भागा आशा: दिशो यस्याः वैश्वानर्या वाचः तन्वः शरीरभूताः । तया वाचा गृणन्तः तं वैश्वानरम् अग्निं स्तुवन्तो वयम् ।. गृ शब्दे । वादित्वात् ह्रस्वः । सधमादेषु । सह माद्यन्ति हृष्यन्ति एंषु इति सधमादा: संग्रामाः । अधिकरणे घञ् । “सध मादस्ययो- श्छन्दसि” इति सहस्य सधादेशः ४ । तेषु सधमादेषु रयीणाम ध नानां पतयः स्याम वैश्वानरप्रसादात् स्वामिनो भवेम ॥ तृतीया ॥ शुद्धा भव॑न्त॒ शुच॑यः पाव॒का । वैश्वानरीं वर्चेस आ 1 $' अस्मिन् for एy. रंभध्वं