पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ७. सू० ६३.]२३६ षष्ठं काण्डम् । 1 इ॒हेड॑या सध॒मादं॑ मद॑न्तो॒ ज्योक् प॑श्येम॒ सूर्य॑मु॒ञ्चर॑न्तम् ॥ ३ ॥ वैश्वा॒न॒रीम् । वच॑से । आ । र॒भ॒ध्व॒म् । शुद्धाः । भव॑न्तः । शुच॑यः । पा॒ाव॒काः न इ॒ह । इड॑या । स॒ध॒ऽमाद॑म् । मद॑न्तः । ज्योक् । प॒श्ये॒म॒ सूर्य॑म् उ॒चर॑न्तम् ॥३॥ वैश्वानरीम वैश्वानराग्निसंबन्धिनीं स्तुतिरूपां वाचम् हे जनाः आ रमध्वम् । किमर्थम् । वर्चसे तेजसे । ब्रह्मवर्चसादितेज:प्राप्तय इत्यर्थः । ततो वैश्वानराग्निप्रसादाद् वयं शुद्धा भवन्तः निष्कल्मषाः सन्तः शुचय: ब्रह्मवर्चसेन दीप्यमानाः कर्मा: पावका: अन्यस्यापि शुद्धिहेतवः इळ- या । अन्ननामैतत् । अनेन सधमादं मदन्तः परस्परसाहित्येन मदन्तः माद्यन्तः इह अस्मिन् भूलोके अवस्थाय उच्चरन्तम् उद्गच्छन्तं सूर्ये ज्योक् चिरकालं पश्येम । दीर्घायुषो भवेमेत्यर्थः । ति णमुलन्तः । तस्यैव धातोरनुप्रयोगश्च ४ ॥ अत्र सधमादम इ- १२९ चतुर्थी ॥ यत् देवी नितिराबबन्ध दार्म ग्रीवास्व॑विमोक्यं यत् । तत् ते॒ वि ष्या॒म्यायु॑षे॒ वर्च॑से॒ बला॑यादोम॒द॒मन॑मद्ध प्रसू॑तः ॥ १ ॥ यत् । ते॒ । दे॒वी । निऽऋ॒ति । आ॒ऽव॒बन्धं । दाम॑ । यी॒वासु॑ । अ॒वि॒ऽमो॒- क्यम् । यत् । . । तत् । ते॒ । वि । स्या॒ामि॒ । आयु॑षे । वर्च॑से । बला॑यं । अ॒द॒ोम॒दम् । अन्न॑म् । अद्धि | प्रसू॑तः ॥ १ ॥ देवी द्योतमाना निरृतिः अनिष्टकारिणी देवता हे पुरुष ते तव यद् दाम सर्वेषु अङ्गेषु आबबन्ध पापरूपं पाशम् आबद्धवती तथा ग्रीवासु कण्ठगतासु धमनीषु अविमोक्यम् विमोक्तुं विस्रष्टुम् अशक्यं यद् दाम आबद्धम् ते तव सर्वस्मात् शरीरात् तत् तादृशं दाम पापरूपं निरृ- तिपाशं वि ष्यामि विमुञ्चामि । पूषो अन्तकर्मणि । अत्र उपसर्ग- वशाद् विमोचनम् अर्थ: । स्यतिरुपसृष्टो विमोचने इति हि यास्क: [ नि० १.१७] । “लोतः श्यनि” इति ओकारलोमः ४ । किम- १P °ोक्य॑म्. २ SO.PPJ Cr. K is not sure.